SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ आगम (४५) [भाग-३९] “अनुयोगद्वार”– चूलिकासूत्र-२ (मूलं+वृत्तिः ) .............. मूलं [१] / गाथा ||१...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: शुष्कोऽचित्तो बहुकोटराकीर्णो वृक्षोऽन्यो वा तथाविधः कश्चित्पदार्थविशेषः सर्पोदेरावासोऽयमिति लौकि-13 कैर्यपदिश्यत एव, स च वृक्षादियद्यप्पनन्तः परमाणुलक्षणैरजीवद्रव्यैर्निष्पन्नस्तथाऽप्येकस्कन्धपरिणतिमाश्रित्य एकाजीवत्वेन विवक्षित इति स्वार्थिककप्रत्ययोपादानादेकाजीवस्यावासकनाम सिद्धं, जीवानामपि बहनामावासकनाम दृश्यते यथा-इष्टकापाकायग्निर्मूषिकावास इत्युच्यते, तत्र ह्यग्नौ किल मूषिकाः संमूच्छन्ति अतस्तेषामसंख्येयानामग्निजीवानां पूर्ववदाबासकं नाम सिद्धम् , अजीवानां तु यथा नीडं पक्षिणामावास इत्युच्यते, तद्धि बहुभिस्तृणायजीवनिष्पयते इति बहूनामजीवानामावासकनाम भवति, इदानीमुभयस्यावा-12 सकसंज्ञा भाव्यते-तत्र गृहदीर्घिकाऽशोकवनिकायुपशोभितः प्रासादादिप्रदेशो राजादेरावास उच्यते, सौधमादिविमानं वा देवानामावासोऽभिधीयते, अत्र च जलवृक्षादयः सचेतनरत्नाद्यश्च जीवा इष्टकाकाष्ठादयोचेतनरत्नादयश्चाजीवास्तन्निष्पन्नमुभयं तस्य कप्रत्ययोपादाने आवासकसंज्ञा सिद्धा, उभयानां त्वावासकसंज्ञा यथा संपूर्णनगरादिकं राजादीनामावास उच्यते, संपूणे: सीधम्मोदिकल्पो वा इन्द्रादीनामावासोऽभि-18 धीयते, अन च पूर्वोक्तप्रासादविमानयोलघुत्वादेकमेव जीवाजीवोभयं विवक्षितमत्र तु नगरादीनां सौधर्मा दिकल्पानां च महत्वाइहूनि जीवाजीवोभयानि विवक्षितानीति विवक्षया भेदो द्रष्टव्यः, एवमन्यत्रापि 18 जीवादीनामावासकसंज्ञा यथासंभवं भावनीया, दिगमात्रप्रदर्शनार्थत्वादस्य । निगमयन्नाह-'से त्तमित्यादि द से तमित्यादि वा कचित् पाठः, तदेतनामावश्यकमित्यर्थः॥९॥ इदानीं स्थापनावश्यकनिरूपणार्थमाह JaEHA ~34~
SR No.035039
Book TitleSavruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy