SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ आगम (४५) [भाग-३९] “अनुयोगद्वार”– चूलिकासूत्र-२ (मूलं+वृत्तिः ) .................... मूलं [८] / गाथा ||१...|| ........ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: इयमात्मानं करोतीत्यावश्यकं, यथा अन्तं करोतीति अन्तकः, अथवा-आवस्सयंति प्राकृतशैल्या आवासकं, तत्र 'वस निवासे' इति गुणशून्यमात्मानम् आ-समन्तात् वासयति गुणैरित्यावासकं, 'चउन्विहं पण्णत्तंति' चतस्रो विधा-भेदा अस्येति चतुर्विधं प्रज्ञसं-प्ररूपितमर्थतस्तीर्थकरैः सूत्रतो गणधरैः, तयथा-'नामावस्सयमित्यादि। नाम-अभिधानं तद्रूपमावश्यकं नामावश्यकम् आवश्यकाभिधानमेवेत्यर्थः, अथवा नाना-नाममात्रेणावश्यक नामावश्यकं जीवादीत्यर्थः, तल्लक्षणं चेदम्-“यवस्तुनोऽभिधानं स्थितमन्यार्थे तदर्थनिरपेक्षम् । पर्यायानभिधेयं च नाम यादृच्छिकं च तथा ॥ १ ॥” विनेयानुग्रहार्थमेतद्व्याख्या-यवस्तुन इन्द्रादेः 'अभिधानम्' इन्द्र इत्यादिवर्णावलीमात्रमिदमेव च आवश्यकलक्षणवर्णचतुष्टयावलीमात्रं यत्तदोर्नियाभिसंबन्धात्तन्नामेति संटङ्कः, अथ प्रकारान्तरेण नाम्नो लक्षणमाह-'स्थितमन्याथै तदर्थनिरपेक्षं पर्यायानभिधेयं चेति' तदपि नाम, यत्कथंभूतमित्याह-अन्यवासावर्चश्वान्यार्थी-गोपालदारकादिलक्षणः तत्र स्थितम्, अन्यनेन्द्रादावर्थे यथार्थत्वेन प्रसिद्धं सदन्यत्र गोपालदारकादौ यदारोपितमित्यर्थः, अत एवाह-तदर्थनिरपेक्षम्' इति, तस्य-इन्द्रादिनानोऽर्थः-परमैश्वर्यादिरूपस्तदर्थः, स चासावर्थश्चेति वा तदर्थः, तस्य निरपेक्ष गोपालदारकादौ तदर्थस्थामावात्, पुनः किंभूतं तदित्याह-'पर्यायानभिधेयमिति' पर्यायाणां-शक्रपुरन्दरादीनामनभिधेयम्-अवाच्यं, गोपालदारकादयो हीन्द्रादिशब्दरुकयमाना अपि शचीपत्यादिरिव शक्रपुरन्दरादिशब्दै भिधीयन्ते, अतस्तनामापि नामतदतोरभेदोपचारात्पर्यायानभिधेयमित्युच्यते, चशब्दो नाम्न एव लक्षणान्तरसूचका, शची ~32~
SR No.035039
Book TitleSavruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy