SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [१२७] दीप अनुक्रम [१६१] [भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं+वृत्तिः) मूलं [१२७] / गाथा ||२३...|| पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः अनुयो० मलधा रीया ॥ ११७ ॥ Econ | पडियोहा निहा दुहपडिबोहा व निदनिद्दा य । पयला होइ ठियस्सा पयलापयला य चंक्रमओ ॥ १ ॥ अइसंकिलिकम्माणुवेयणे होइ थीणगिद्धी उ । महनिदा दिणचिंतियवावारपसाहणी पायं ॥ २ ॥ अपरं च-अनावरणादिशब्दाः पूर्व ज्ञानावरणाभावापेक्षाः प्रवृत्ता अत्र तु दर्शनावरणाभावापेक्षा इति विशेषः, वेदनीयं द्विधा प्रीत्युत्पादकं सातमप्रीत्युत्पादकं त्वसातं, तत्क्षयापेक्षास्तु क्षीणसातावेदनीयादयः शब्दाः सुखोनेयाः, नवरमवेदनो-वेदनारहितः, स च व्यवहारतोऽल्पवेदनोऽप्युच्यते ततः प्राह-निर्वेदन:- अपगतसर्ववेदनः, स च पुनः कालान्तरभाविवेदनोऽपि स्यादित्याह-क्षीणवेदन:- अपुनर्भाविवेदन:, निगमयन्नाह - 'सुभासुभवेअणिज्जकम्मविप्पमुक्के न्ति । मोहनीयं द्विधा- दर्शनमोहनीयं चारित्रमोहनीयं च तत्र दर्शनमोहनीयं त्रिधा सम्यक्त्वभिश्रमिध्यात्वभेदात्, चारित्रमोहनीयं च द्विधा - क्रोधादिकषायहास्यादिनोकषाय भेदात्, तत एतत्क्षयसम्भवीनि सूत्रलिखितानि क्षीणक्रोधादीनि नामानि सुबोधान्येव, नवरं मायालोभी प्रेम, क्रोधमानौ तु द्वेषः, तथा अमोह:- अपगतमोहनीयकर्मा, स च व्यावहारिकैरल्पमोहोदयोऽपि निर्दिश्यते अत आह-निर्गतो मोहानिर्मोह:, स च पुनः कालान्तरभाविमोहोदयोऽपि स्यादुपशान्तमोहबत् तद्व्यवच्छेदार्थमाह-क्षीणमोह: अपुनर्भाविमोहोदय इत्यर्थः, निगमयति- मोहनीय कर्मविप्रमुक्त इति । नारकायायुष्कभेदेनायुश्चतुर्द्धा तत्क्षयसमुद्भवानि च नामानि सुगमानि, नवरमविद्यमानायुष्कोऽनायुष्कस्तद्भविकायुःक्षयमात्रेऽपि स्यादत उक्तं निरायुष्कः, स च शैलेशीं गतः किञ्चिदवतिष्ठमानायुः शेषोऽप्युपचारतः स्यादत उक्तं For P&Praise C ~ 245 ~ वृत्ति उपक्रमाधि० ॥ ११७ ॥ my
SR No.035039
Book TitleSavruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size129 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy