SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ आगम (४५) [भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:) ................ मूलं [१२७] / गाथा ||२३...|| ........ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१२७] दीप अनुक्रम [१६१] च सर्वेष्वपि कर्मसु सर्वथा क्षीणेषु ये पर्यायाः संभवन्ति तान् क्रमेण दिदर्शयिषुर्ज्ञानावरणक्षये तावद् ये भवन्ति तानाह–'उप्पण्णणाणदंसणे'यादि, उत्पन्ने-श्यामतापगमेनादर्शमण्डलप्रभावत् सकलतदाबरणापगमादभिव्यक्त ज्ञानदर्शने धरति यः स तथा, 'अरहा' अविद्यमानरहस्यो, नास्य गोप्यं किश्चिदस्तीति भावः, आवरणशत्रुजेतृत्वाजिना, केवलं-सम्पूर्ण ज्ञानमस्यास्तीति केवली, क्षीणमाभिनियोधिकज्ञानावरणं यस्य स तथा, एवं नेयं यावत् क्षीणकेवलज्ञानावरणः, अविद्यमानमावरणं यस्य स विशुद्धाम्बरे श्वेतरोचिरिवानावरणः, तथा निर्गत आगन्तुकादप्यावरणादू राहुरहितरोहिणीशवदेव निरावरणः, तथा क्षीणमेकान्तेनापुनर्भावितया आवरणमस्येत्यपाकृतमलावरणजात्यमणिवत् क्षीणावरणः, निगमयन्नाह-ज्ञानावरणीयेन कर्मणा विविधम्-अनेकैः प्रकारैः प्रकर्षेण मुक्तो ज्ञानावरणीयकर्मविप्रमुक्ता, एकार्थिकानि वा एतान्यनावरणादिपदानि, अन्यथा वा नयमतभेदेन सुधिया भेदो वाच्यः । तदेवमेतानि ज्ञानावरणीयक्षयापेक्षाणि नामान्युकानि, अथ दर्शनावरणीयक्षयापेक्षाणि तान्येवाह-'केवलदंसी'त्यादि, केवलेन-क्षीणावरणेन दर्शनेन पश्यतीति केवलदर्शी क्षीणदर्शनावरणत्वादेव सर्वं पश्यतीति सर्वदर्शीत्येवं निद्रापश्चकदर्शनावरणचतुष्कक्षयसम्भवीन्यपराण्यपि नामान्यत्र पूर्वोक्तानुसारेण व्युत्पादनीयानि, नवरं निद्रापञ्चकस्वरूपमिदम्-"सुह-| १ मुखप्रतियोथा निदा दुःखप्रतिबोधा च निवानिद्रा च । प्रचल्य भवति स्थितस्य प्रचलाप्रचला व बहमतः ॥ १॥ अतिसक्निष्टकर्माणुवेदने भवति स्थानलगदिस्तु । महानिद्रा दिनचिन्तितव्यापारप्रसाधनी प्रायः ॥ २॥ ~244~
SR No.035039
Book TitleSavruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size129 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy