SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ आगम (४५) [भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:) ................ मूलं [१२०] / गाथा ||१६...|| ........ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: वृत्तिः उपक्रमाधि मलधारीया प्रत सूत्रांक [१२० ॥१०४॥ दीप अनुक्रम [१४५] M इह तेन तेन रूपेण भवनानि भावा:-वस्तुपरिणामविशेषा:-औदयिकादयः, अथवा तेन तेन रूपेण भव-13 न्तीति भावास्त एव, यहा भवन्ति तैः तेभ्यस्तेषु वा सत्सु प्राणिनस्तेन तेन रूपेणेति भावा यथोक्ता एव, तेषामानुपूर्वी-परिपाटिर्भावानुपूर्वी, औदयिकादीनां तु खरूपं पुरस्तात्र्यक्षेण वक्ष्यते, अत्र च नारकादिगतिरौदयिको भाव इति वक्ष्यते, तस्यां च सत्यां शेषभावाः सर्वेऽपि यथासम्भवं प्रादुर्भवन्तीति शेषभावाधारत्वेन प्रधानत्वादादयिकस्य प्रथममुपन्यासः, ततश्च शेषभावपञ्चकस्य मध्ये औपशमिकस्य, स्तोकविषयत्वात् स्तोकतया प्रतिपादयिष्यत इति तदनन्तरमौपशमिकस्य, ततो बहुविषयत्वात् क्षायिकस्य, ततो बहुतरविरापयत्वात् क्षायोपशमिकस्य, ततो बहुतमविषयत्वात् पारिणामिकस्य, ततोऽप्येषामेव भावानां बिकादिसं-1 योगसमुत्थत्वात् सान्निपातिकस्योपन्यास इति पूर्वानुपूर्वीक्रमसिद्धिरिति । शेषं पूर्वोक्तानुसारेण भावनीयम् । तदेवमुक्ताः प्रागुद्दिष्टा दशाप्यानुपूर्वीभेदाः, तद्भणने चोपक्रमप्रथमभेदलक्षणा आनुपूर्वी समाप्सा ॥१२०॥ साम्प्रतमुपक्रमस्यैव प्रागुद्दिष्टं द्वितीय भेदं व्याचिख्यासुराह से किं तं णामे?, णामे दसविहे पण्णत्ते, तंजहा-एगणामे दुणामे तिणामे चउ णामे पंचणामे छणामे सत्तणामे अट्रणामे णवणामे दसणामे (सू० १२१) इह जीवगतज्ञानादिपर्यायाजीवगतरूपादिपर्यायानुसारेण प्रतिवस्तु भेदेन नमति-तदभिधायकत्वेन प्रवर्तत ॥१०४॥ अथ उपक्रमस्य द्वितिय-भेदः 'नाम'स्य भेद-प्रभेदानाम् वर्णनं आरभ्यते ~219~
SR No.035039
Book TitleSavruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size129 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy