SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [१२१] दीप अनुक्रम [१४६ ] [भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं+वृत्तिः) मूलं [१२१] / गाथा ||१६|| पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः इति नाम, वस्त्वभिधानमित्यर्थः, उक्तं च- ""जं वत्थुणोऽभिहाणं पज्जयभेयाणुसारियं नामं । पहले अं जं नमई पहभेअं जाइ जं भणिअं ॥ १ ॥ इदं च दशप्रकारं कथमित्याह- 'एगनामे' इत्यादि, इह येन केनचिन्नान्ना एकेनापि सता सर्वेऽपि विवक्षितपदार्था अभिधातुं शक्यन्ते तदेकनामोच्यते, यकाभ्यां तु नामभ्यां द्वाभ्यामपि सर्वे विवक्षितवस्तुजातमभिधानद्वारेण संगृह्यते तद् द्विनाम, पैस्तु त्रिभिर्नामभिः सर्वेऽपि विवक्षितपदार्था अभिधातुं शक्यन्ते तत् त्रिनाम, यैस्तु चतुर्भिर्नामभिः सर्व विवक्षितं वस्त्वभिधीयते तच्चतुर्नाम, एवमनया दिशा ज्ञेयं, यावद् यैर्दशभिर्नामभिः सर्व विवक्षितं वस्तु प्रतिपाद्यते तद् दशनामेति ॥ १२१ ॥ तत्र 'यथोद्देशं निर्देश' इत्येकनामोदाहरन्नाह से किं तं एगणामे ?, २ - णामाणि जाणि काणिवि दव्वाण गुणाण पजवाणं च । तेसिं आगमनिहसे नामंति परूविआ सण्णा ॥ १ ॥ से तं एगणामे ( सू० १२२ ) 'नामाणि गाहा' व्याख्या- 'द्रव्याणां' जीवाजीव भेदानां 'गुणानां ज्ञानादीनां रूपादीनां च तथा 'पर्यायाणां' नारकत्वादीनामेकगुणकृष्णत्वादीनां च नामानि अभिधानानि यानि कानिचिल्लोके रूढानि तद्यथा-जीवो जन्तुरात्मा प्राणीत्यादि, आकाशं नभस्तारापथो व्योमाम्बरमित्यादि, तथा ज्ञानं वुद्धिर्योध इत्यादि, तथा रूपं रसो गन्ध इत्यादि, तथा नारकस्तिर्यङ् मनुष्य इत्यादि, एकगुणकृष्णो द्विगुणकृष्ण इत्यादि, तेषां सर्वेषामप्य १ बस्तुनोऽभिधानं पर्यायभेदानुसारिकं नाम । प्रतिभेदं यन्नमति प्रतिभेदं याति यद्भणितम् ॥ १ ॥ For P&Pase Cinly ~220~
SR No.035039
Book TitleSavruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size129 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy