________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
............. मूलं [१०५-११२] / गाथा ||१५R|| ............ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१०५-११२]
अनुयो. मलधारीया
उपक्र
॥१७॥
tos
गाथा
॥१॥
त शून्यत्वादिति । अनानुपूर्वीचिन्तायां 'एग दव्वं पडुच जहण्णेणं दो समयसि, एकसमयस्थितिक द्रव्यं यदा वृत्तिः [परिणामान्तरेण समयद्वयमनुभूय पुनस्तमेवैकसमयस्थितिक परिणाममासादयति तदा समयदयं जघन्योन्तरकाला, यदि तु परिणामान्तरेणाप्येकमेव समयं तिष्ठेत् तदा अन्तरमेव न स्यात्, तत्राप्यनानुपूर्वीत्वादू,
माधि० अथ समयदयात् परतस्तिष्ठेत्तदा जघन्यत्वं न स्यादिति भावः । 'उक्कोसेणं असंखेनं कालं ति, तदेव यदा परिणामान्तरेणासडूनख्येयकालमनुभूय पुनरेकसमयस्थितिक परिणाममनुभवति तदोत्कृष्टतोऽसङ्ख्ययोन्तरकालः प्राप्यते । आह-ननु यदि च अन्यान्यद्रव्यक्षेत्रसम्बन्धे तस्यानन्तोऽपि कालोऽन्तरे लभ्यते कि|मित्यसङ्ख्येय एवोक्तः, सत्यं, किन्तु कालानुपूर्वीप्रक्रमात् कालस्यैवेह प्राधान्यं कर्तव्यं, यदि त्वन्यान्यद्-4 व्यक्षेत्रसम्बन्धतोऽन्तरकालबाहुल्यं क्रियते तदा तद्वारेणैवान्तरकालस्य बहुत्वकरणात्सयोर्दयोरेव प्राधान्यमाश्रितं स्यान्न कालस्य, तस्मादेकस्मिन्नेव परिणामान्तरे यावान् कश्चिदुत्कृष्टः कालो लभ्यते स एवान्तरे चिन्त्यते, स चासख्येय एव, ततः परमेकेन परिणामेन वस्तुनोऽवस्थानस्यैव निषिद्धत्वादित्येवं भगवतः सूत्रस्य विवक्षावैचित्र्यात् सर्व पूर्वमुत्तरत्र चागमाविरोधेन भावनीयमिति । नानाद्रव्याणां तु नास्त्यन्तरं, प्रतिप्रदेशं लोके सर्वदा तल्लाभादिति । अवक्तव्यकद्रव्यचिन्तायां 'जहपणेणं एगं समयंति, दिसमयस्थितिकं| किश्चिद्वक्तव्यकद्रव्यं परिणामान्तरेण समयमेकं स्थित्वा यदा पूर्वानुभूतमेव दिसमयस्थितिकपरिणाममा-॥९॥ सादयति तदा समयो जघन्यान्तरकालः । 'उकोसेणं असंखेज़ कालं ति, तदेव यदा परिणामान्तरेणासङ्ख्येयं
दीप अनुक्रम [१२६-१३५]
414
Jaticha
~205~