________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार”– चूलिकासूत्र-२ (मूलं+वृत्तिः )
................. मूलं [२] / गाथा ||-|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
चिन्तयति 'सागरवरगम्भीरेति'यावचतुविशतिस्तवं चिन्तयति इत्यर्थः, 'उद्देससमुद्देसे सत्तावीसं अणुण्णवणयाए' इतिवचनात्, ततः पारितकायोत्सर्गः संपूर्ण चतुर्विशतिस्तवं भणित्वा परिसमासोद्देशक्रियत्वाद
गुरोः थोभवन्दनकं ददाति, तच न श्रुतप्रत्ययं, किं तर्हि ?, श्रुतदातृत्वादिना गुरुः परमोपकारी, तबिनयप्रतिपKIतिनिमित्तमिति । अङ्गादिसमुद्देशेऽप्ययमेव विधिर्वक्तव्यो, नवरं पूर्वप्रवेदिते योगं कुर्वित्युक्तमत्र तु स्थिरपरिचितं कुर्विति बदति, योगोत्क्षेपकायोत्सर्गो नन्द्याकर्षण प्रदक्षिणात्रयविधिश्च न क्रियते, शेषः ससवन्दनकादिको विधिस्तथैव । अनुज्ञाविधिस्तु योगोत्क्षेपकायोत्सर्गवर्जः सर्वोऽप्युदेशविधिवद्वक्तव्यो, नवरं प्रवेदिते गुरुर्वदति-'सम्यग् धारयान्येषां च प्रवेदयं अन्यानपि पाठयेत्यर्थः, आवश्यकादिषु तण्डुलविचारणादिप्रकीर्णकेष्वपि वैष एव विधिः, नवरं खाध्यायप्रस्थापनं योगोत्क्षेपकायोत्सर्गश्च न क्रियते, एवं सामायिकायध्ययनेषूद्देशकेषु च चैत्यवन्दनप्रदक्षिणात्रयादिविशेषक्रियारहितः सप्तवन्दनकमदानादिकः स एव विधिरिति तावदियं चूर्णिकारलिखिता सामाचारी, साम्प्रतं पुनरन्यथापि ताः समुपलभ्यन्ते, न च तथोपलभ्य , सम्मोहः कर्त्तव्यः, विचित्रत्वात्सामाचारीणामिति । इदानीमनुयोगविधिरुच्यते-तत्रानुयोगो-वक्ष्यमाणशब्दार्थः, स यदाऽधीतसूत्रस्थाचार्यपदप्रस्थापनयोग्यस्य शिष्यस्थानुज्ञायते तदाऽयं विधि:-प्रशस्तेषु तिधिनक्षप्रकरणमुहर्सेषु प्रशस्ते च जिनायतनादी क्षेत्रे भुवं प्रमाणं एका गुरूणामेका त्वक्षाणामिति निषद्यादयं क्रि
१ उरेशे समुदेने सप्तविंशतिरनुमापने.
~20~