________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
................... मूलं [१०१] / गाथा ||१०|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक [११]
गाथा
||१||
ACCESCRCE
एवमन्यदपि कारणमभ्यूद्यमित्यलं विस्तरेण । एवं चतुष्पदेशावगाढादिष्वपि भावना कार्या, यावदसजयातप्रदेशावगाढा आनुपूर्वीति, असङ्ख्यातप्रदेशेषु चावगाढोऽसङ्ख्याताणुकोऽनन्ताणुको वा द्रव्यस्कन्धो मन्तव्यो, यतः पुद्गलद्रव्याणामवगाहमित्थं जगद्गुरवः प्रतिपादयन्ति-परमाणुराकाशस्यैकस्मिन्नेव प्रदेशेऽवगाहते, द्विप्रदेशिकादयोऽसङ्ख्यातप्रदेशिकान्तास्तु स्कन्धाः प्रत्येकं जघन्यत एकस्मिन्नाकाशप्रदेशेऽवगाहन्ते, उत्कृष्टतस्तु यत्र स्कन्धे यावन्तः परमाणवो भवन्ति स तावत्स्वेव नभापदेशेष्ववगाहते, अनन्ताणुकस्कन्धस्तु जघन्यतस्तथैव उत्कृष्टतस्त्वसङ्ख्येयेष्वेव नभःप्रदेशेष्ववगाहते, नानन्तेषु, लोकाकाशस्यैवासङ्ख्येयप्रदेशत्वात, अलोकाकाशे च द्रव्यस्थावगाहाभावादित्यलं प्रसङ्गेन, प्रकृतमुच्यते । तत्रानुपूर्वीप्रतिपक्षवादनानुपूष्योंदिवरूप|माह-'एगपएसोगाढे अणाणुपुब्वि'त्ति, एकस्मिन्नभाप्रदेशे अवगाढः-स्थित एकप्रदेशावगाढः परमाणुसङ्घातः स्कन्धसङ्घातश्च क्षेत्रतोऽनानुपूर्वीति मन्तव्यः, 'दुप्पएसोगाढे अवत्तब्बए'त्ति, प्रदेशद्वयेऽवगादो दिनदेशिकादिस्कन्धः क्षेत्रतोऽवक्तव्यकं, शेषो बहुवचननिर्देशादिको अन्धो यथाऽधस्ताद् द्रव्यानुपूया व्याख्यातस्तथेहापि तदुक्तानुसारतो व्याख्येयो, यावद् द्रव्यप्रमाणद्वारे 'णेगमववहाराणं आणुपुत्वीदव्वाइं किं संखेजाई' इत्यादि प्रश्ना, अनोत्तरम्-'नो संखेजाइ'मित्यादि, श्यादिप्रदेशविभागावगाढानि द्रव्याणि क्षेत्रत आनुपूर्वीत्वेन निर्दिष्टानि, व्यादिप्रदेशविभागाश्चासङ्ख्यातप्रदेशात्मके लोकेऽसङ्ख्याता भवन्ति, अतो द्रव्य-15 तया बहूनामपि क्षेत्रावगाहमपेक्ष्य तुल्यप्रदेशावगाढानामेकत्वात् क्षेत्रानुपूामसङ्ख्यातान्येबानुपूर्वीद्रव्याणि
दीप अनुक्रम
[११४-११६]
~170~