SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [८६] दीप अनुक्रम [७] [भाग-३९] “अनुयोगद्वार” - चूलिकासूत्र - २ ( मूलं +वृत्तिः) मूलं [८६] / गाथा ||८...|| ...... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः यदा यथोक्तां स्थितिमनुभूय तत एकाक्येव भवति तदा तस्य यथोक्तानन्तस्कन्धस्थित्यपेक्षया अनन्तोऽपि कालोऽन्तरे प्राप्यते किमित्यसङ्ख्येय एवोक्तः ?, अत्रोच्यते, स्यादेवं हन्त यदि संयुक्तोऽणुरेतावन्तं कालं तिष्ठेद्, एतच नास्ति, पुद्गलसंयोगस्थितेरुत्कृष्टतोऽप्यसङ्ख्येयकालत्वादित्युक्तमेव, अथ ब्रूयाद्-यस्मिन्नेव स्कन्धे संयुज्यतेऽसौ परमाणुः स चेत्स्कन्धोऽसङ्ख्यकालाद्भियते ततावतैव चरितार्थः पुनलसयोगासख्येयकालनियमो, विवक्षित परमाणु द्रव्यस्य तु वियोगो मा भूदपीति, नैतदेवं यस्यान्येन संयोगो जातस्तस्यासङ्ख्येयकाला वियोगश्चिन्त्यते, यदि च परमाण्वाश्रयः स्कन्धो वियुज्यते तर्हि परमाणोः किमायातः, | तस्यान्यसंयोगस्य तदवस्थत्वात् तस्मादणुत्वेनासौ संयुक्तोऽसङ्ख्यकालादणुत्वेनैव वियोजनीय इति यथोक्त एवान्तरकालो न त्वनन्त इति, कथं पुनरणुत्वेनैव तस्य वियोगश्चिन्तनीय इति चेत् सूत्रप्रामाण्यात्, प्रस्तुतसूत्रे व्याख्याप्रज्ञत्यादिषु च परमाणोः पुनः परमाणुभवनेऽसङ्ख्येयरूपस्यैवान्तरकालस्योक्तत्वादित्यलं विस्तरेण । 'नाणादव्वाहं पडुचे'त्यादि पूर्ववद्भावनीयम् । अवक्तव्यकद्रव्याणामन्तरचिन्तायाम् 'एगं दव्वं पहुचेत्यादि, अत्र भावना-इह कश्चिद् द्विप्रदेशिकः स्कन्धो विघटितः, स्वतन्त्रं परमाणुद्वयं जातं, समयं चैकं तथा स्थित्वा पुनस्ताभ्यामेव परमाणुभ्यां दिप्रदेशिकः स्कन्धो निष्पन्नः, अथवा विघटित एव विप्रदे शिकः स्कन्धोऽन्येन परमाण्वादिना संयुज्य समयादूर्ध्वं पुनस्तथैव वियुक्त इत्यवक्तव्यकस्य पुनरप्यवक्तव्यकभवने उभयथापि समयोऽन्तरे लभ्यते, 'उक्कोसेणं अणतं कालं' इति, कथम् ?, अत्रोच्यते, अवक्तव्यकद्रव्यं For P&Pase Cinly ~ 140~
SR No.035039
Book TitleSavruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy