SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [?] दीप अनुक्रम [3] [भाग-३९] “अनुयोगद्वार” - चूलिकासूत्र - २ (मूलं + वृत्ति:) मूलं [१] / गाथा ||--II पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः | ३-३-११३ ) इति वचनात् भावसाधनः ज्ञायते परिच्छिद्यते वस्त्वनेनास्मादस्मिन्वेति वा ज्ञानं, जानाति खविषयं परिच्छिनत्तीति वा ज्ञानं ज्ञानावरणकर्मक्षयोपशमक्षयजन्यो जीवस्वतत्त्वभूतो बोध इत्यर्थः, 'पश्चविहंति' पश्चेति-सङ्ख्यावचनो विधानानि विधा:-भेदाः पञ्च विधा अस्येति पञ्चविधं पञ्चमकारमित्यर्थः, 'पण्णतंति' प्रज्ञप्तमर्थतस्तीर्थकरैः सूत्रतो गणधरैः प्ररूपितमित्यर्थः अनेन सूत्रकृता आत्मनः खमनीषिका परिहृता भवति, अथवा प्राज्ञात्-तीर्थकरादासं प्रासं गणधरैरिति प्राज्ञाप्तम्, अथवा प्राज्ञैः गणधरैस्तीर्थकरादात्तंगृहीतमिति प्राज्ञासं, प्रज्ञया वा भव्यजन्तुभिराप्तं प्राप्तं प्रज्ञाप्तं, न हि प्रज्ञाविकलैरिदमवाप्यत इति प्रतीतमेव, ह्रस्वत्वं सर्वत्र प्राकृतत्वादित्यवयवार्थः, अक्षरयोजना त्वेवम्-ज्ञानं परमगुरुभिः प्रज्ञप्तमिति सम्बन्धः, कतिविधमिति, अत्रोच्यते, पञ्चविधमिति ॥ तस्यैव पञ्चविधत्वस्योपदर्शनार्थमाह- 'तंजहेत्यादि' तद्यथेत्युपन्यासार्थः, आभिनियोधिकज्ञानं श्रुतज्ञानम् अवधिज्ञानं मनःपर्यायज्ञानं केवलज्ञानं चेति । तत्र अभीत्याभिमुख्ये नीति नैपत्ये, ततश्चाभिमुखो वस्तुयोग्यदेशावस्थानापेक्षी नियत-इन्द्रियाण्याश्रित्य स्वस्वविषयापेक्षी बोधः अभिनिबोध इति भावसाधनः, स्वार्थिकतद्वितोत्पादात्स एवाभिनियोधिकम्, अभिनिवुध्यते आत्मना स इत्यभिनिबोध इति कर्म्मसाधनो वा, अभिनिवुध्यते वस्त्वसावित्यभिनिबोध इति कर्तृसाधनो वा, स एवाभिनियोधिकमिति तथैव, आभिनिवोधिकं च तद् ज्ञानं चाभिनिवोधिकज्ञानम्-इन्द्रियपञ्चकमनोनिमित्तो बोध इत्यर्थः । श्रवणं श्रुतम् अभिलापलावितार्थग्रहणस्वरूप उपलब्धिविशेषः श्रुतं च तद् ज्ञानं च श्रुतज्ञा Ja on ematen For P&Pase Cnly ~14~
SR No.035039
Book TitleSavruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy