________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार”– चूलिकासूत्र-२ (मूलं+वृत्तिः )
.............. मूल [१] / गाथा ||--|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
वृत्तिः
अनुयो०
अधि०
अनुयो
नम्, अथवा श्रूयत इति श्रुतं-शब्दः स चासौ कारणे कार्योपचारादू ज्ञानं च श्रुतज्ञानं, शब्दो हि श्रोतुः मलधा- सामिलापज्ञानस्य कारणं भवतीति सोऽपि श्रुतज्ञानमुच्यते । अवधानमवधिः-इन्द्रियाद्यनपेक्षमात्मनः सा-13 रीया शिक्षादर्थग्रहणम्, अवधिरेव ज्ञानमवधिज्ञानम्, अथवा अवधिः-मर्यादा तेनावधिना-रूपिद्रव्यमर्यादात्मकेन
ज्ञानमवधिज्ञानं । संज्ञिभिर्जीवैः काययोगेन मनोवर्गणाभ्यो गृहीतानि मनोयोगेन मनस्त्वेन परिणमितानि ॥२ ॥
द्रव्याणि मनासीत्युच्यन्ते, तेषां मनसां पर्यायाः-चिन्तनानुगुणाः परिणामास्तेषु ज्ञानं मनःपर्यायज्ञानम्, अथवा यथोक्तखरूपाणि मनांसि पर्येति-अवगच्छतीति मनःपर्यायमिति कर्मण्यण (पा०३-२-१), तच्च तद् ज्ञानं च मनःपर्यायज्ञानं । केवलं-संपूर्णज्ञेयविषयत्वात् संपूर्ण तच तद् ज्ञानं च केवलज्ञानमिति ॥ अवग्रहादिभेदचिन्ता त्वेतेषां ज्ञानानामन्त्र न क्रियते, सूत्रेऽनुक्तत्वेनाप्रस्तुतत्वात् नन्द्यादिषु विस्तरेणोक्तत्वाचेति । अनेन च शास्त्रस्थादावेच ज्ञानपञ्चकोत्कीर्तनेन मङ्गलं कृतं भवति, सकलक्लेशविच्छेदहेतुत्वेन ज्ञानस्य परम-12 मङ्गलत्वात् । अभिधेयं तु गुणनिष्पन्नानुयोगद्वारलक्षणशास्त्रनामत एव सकाशात्प्रतीयते, उपक्रमाद्यनुयोगदाराणामेवेहाभिधास्यमानत्वात् । प्रयोजनं तु प्रकरणकर्तृश्रोत्रोः प्रत्येकमनन्तरपरम्परभेदाचिन्तनीयं, तत्र प्रकरणकर्तुरनन्तरं सत्त्वानुग्रहः प्रयोजनं, श्रोतुश्च प्रकरणार्थपरिज्ञानं, परम्परं तु द्वयोरपि परमपदप्राप्तिः, इदं तु यद्यपीह साक्षान्नोक्तं तथापि सामोदवसीयते, तथाहि-सत्त्वानुग्रहप्रवृत्ता एव परमगुरव इदमुपदि-४॥ शन्ति, तदनुग्रहे च क्रमेण परमपदप्राप्तिः प्रतीतैव, श्रोताऽपि गुरुभ्यः प्रस्तुतप्रकरणार्थ विज्ञानाति, तत्परिज्ञाने
॥
२॥
~15