________________
आगम
(४४)
प्रत
सूत्रांक
॥८॥
दीप
अनुक्रम
[C]
[भाग-३८] “नन्दी” - चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [-]/गाथा ||८||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४ ] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
श्रीमलयगिरीया
नन्दीवृत्तिः
॥ ४४ ॥
५
जलौघतः तद्बलाद्विनिर्गतेः, तथा पञ्च महाव्रतान्येव - प्राणातिपातादिविरमणलक्षणानि स्थिरा-दृढा कर्णिकान्मध्यगण्डिका यस्य तत्तथा तस्य, तथा गुणाः- उत्तरगुणाः त एव पञ्च महाव्रतरूपकर्णिकापरिकरभूतत्वात् केसरा द्रव गुणकेसराः ते विद्यन्ते यस्य तत्तथा तस्य, अत्र 'मतुवत्थंमि मुणिजह आलं इलं मणं तह य' इति प्राकृतलक्षणात् मत्वर्थे आलप्रत्ययः । तथा ये अभ्युपेतसम्यक्त्वाः प्रतिपन्नाणुत्रता अपि प्रतिदिवस यतिभ्यः साधूनामगारिणां चोत्तरोत्तरविशिष्टगुणप्रतिपत्तिहेतोः सामाचारीं शृण्वन्ति ते श्रावकाः, उक्तं च- “संपंत्तदंसणाई पर्यादियहं जइजणा सुणेई य। सामायारिं परमं जो खलु तं सावगं विंति ॥ १ ॥ श्रावकाश्च ते जनाथ श्रावकजनाः त एव मधुकर्यः ताभिः परिवृतस्य तस्य, तथा 'जिनसूर्यतेजोबुद्धस्य' जिन एवं सकलजगत्प्रकाशकतया सूर्य इव भास्कर इव जिनसूर्यस्तस्य तेजो- विशिष्टसंवेदनप्रभवा धर्मदेशना तेन बुद्धस्य, तथा श्राम्यन्तीति श्रमणा 'नन्द्यादिभ्योऽन' इति कर्त्तर्यन प्रत्ययः, श्राम्यन्ति तपस्यन्ति, किमुक्तं भवति ? - प्रब्रज्याऽऽरम्भदिवसादारभ्य सकलसावद्ययोगविरता गुरूपदेशादाप्राणोपरमाद्यथाशक्त्यनशनादि तपश्चरन्ति, उक्तं च- " यः समः सर्वभूतेषु, त्रसेषु स्थावरेषु च । तपश्चरति शुद्धात्मा, श्रमणोऽसौ प्रकीर्त्तितः ॥ १ ॥" श्रमणानां गणः श्रमणगणः स एव सहस्रं पत्राणां यस्य तत् श्रमणगणसहस्रपत्रं तस्य ( श्रीसङ्घपद्मस्य भद्रं भवतु ) ॥ भूयोऽपि सङ्घस्यैव सोमतया चन्द्ररूपकेण स्तवमभिधित्सुराह
१ संप्राप्तदर्शनादिः प्रतिदिवस पश्चिममाद् गुणोति च सामावारी परमां यः ख तं धावकं भुवते ॥ १
For Penal Use On
~99~
संघस्य पद्मेनौ पम्यं.
गा. ७.८
१७
२२
॥ ४४ ॥
२६
arr