________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.................... मूलं [-]/गाथा ||३|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्रांक ||३||
दीप अनुक्रम
|क्तिरनवस्था च, तन्नैकान्तभेदपक्षे धर्मिधर्मभावः, नाप्येकान्ताभेदपक्षे, यतस्त स्मिन्नभ्युपगम्यमाने धर्ममात्रं वा स्थाद्ध--31
मिमात्रं वा, अन्यथै कान्ताभेदानुपपत्तेः, अन्यतराभावे चान्यतरस्याप्यभावः, परस्परनान्तरीयकत्वाद्, धर्मनान्तरी-1 लयको हि धर्मी, धम्मिनान्तरीयकाश्च धाः, ततः कथमेकाभावेऽपरस्यावस्थानमिति ?, कल्पितो धर्मधमिभावः|
ततो न दूषणमिति चेत् तर्हि वस्त्वभावप्रसङ्गः, न हि धर्मम्मिखभावरहितं किञ्चिद्वस्वस्ति, धर्मधमिभावश्च |
कल्पित इति तदभावप्रसङ्गः, धर्मा एव कल्पिता न धर्मी तत्कथमभावप्रसङ्ग इति चेत्, न, धर्माणां कल्पनामात्रदि त्वाभ्युपगमेन परमार्थतोऽसत्त्वाभ्युपगमात् , तदभावे च धर्मिणोऽप्यभावापत्तेः, अथ तदेवैकं खलक्षणं सकलसजाहैतीयविजातीयव्यावृत्त्येकखभावं, धम्मिव्यावृत्तिनिबन्धनाश्च या व्यावृत्तयो भिन्ना इव कल्पितास्ता धाः, ततो न क|श्चिन्नो दोषः, तदप्ययुक्तम् , एवं कल्पनायां वस्तुतोऽनैकान्तात्मकताप्रसक्तेः, अन्यथा सकलसजातीयविजातीयव्यावृत्त्ययोगात्, न हि येनैव स्वभावेन घटादू व्यावर्त्तते पटः तेनैव स्तम्भादपि, स्तम्भस्य घटरूपताप्रसक्तेः, तथाहि-घटाद् व्यावर्तते पटो घटव्यावृत्तिखभावतया स्तम्भादपि चेद् घटव्यावृत्तिखभावतयैव व्यावर्त्तते तर्हि बलात् स्तम्भस्य घटरूपताप्रसक्तिः, अन्यथा तत्स्वभावतया व्यावृत्त्ययोगात् , तस्माद्यतो यतो व्यावर्त्तते तत्तद्व्यावृत्तिनिमित्तभूताः खभाषा अवश्यमभ्युपगन्तव्याः, ते च नैकान्तेन धर्मिणोऽभिन्नाः, तदभावप्रसङ्गात् , तथा च तदवस्थ एव पूर्वोक्तो दोषः, तस्माद् भिन्नाभिन्नाः, भेदाभेदोऽपि धर्ममिणोः कथमिति चेत्, उच्यते, इह यद्यपि तादात्म्यतो धर्मिणां
SARE
~92~