SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ आगम (४४) [भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:) .................... मूलं [-]/गाथा ||३|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति: नन्दीवृत्तिः प्रत सूत्रांक ||३|| दीप अनुक्रम श्रीमलय-18 धर्माः सर्वेऽपि लोलीभावेन व्यासाः तथाऽप्ययं धर्मी एते धर्मा इति परस्परं भेदोऽप्यस्ति, अन्यथा तद्भावानु-1Bधर्मिगिरीयादा पपत्तिः, तथा च सति प्रतीतिबाधा, मिथो भेदेऽपि च विशिष्टान्योऽन्यानुवेघेन सर्वधर्माणां धम्मिणा व्याप्तत्वा- भेदाभेद सदभेदोऽप्यस्ति, अन्यथा तस्य धर्मा इति सङ्गानुपपत्तेः, ततश्च न सर्वेषां वीतरागत्वप्रसङ्गः, केवलभेदस्थानभ्युपगमात् , सिद्धि ॥४१॥ नापि दोषक्षयवदात्मनोऽपि क्षयः, केवलाभेदस्यानभ्युपगमादिति सर्व सुस्थम् । ननु येनैव क्रमेण भगवतोऽतिशयलाभः तेनैव क्रमेण तदभिधानं युक्तिमत् नान्यथा, भगवतश्च प्रथमतोऽपायापगमातिशयस्य लाभः पश्चात् ज्ञानातिशयस्य तकिमर्थ व्युत्क्रमनिर्देशः?, उच्यते, "फलप्रधानाः समारम्भा" इति ज्ञापनार्थ । तथा 'भद्र' कल्याण भवत, सुरैःशक्रादिभिः असुरैः-चमरादिभिर्नमस्कृतस्य, अनेन पूजातिशयमाह, न हि विभवानुरूपां भगवतः पूजामकृत्वा सुरासुरा नमस्कृतिक्रियायां प्रवृत्तिमातेनुः, तथाकल्पत्वात् , पूजां च ते कृतवन्तोऽष्टमहापातिहार्यलक्षणां, तानि च महाप्रातिहार्यायमूनि-"अशोकवृक्षः सुरपुष्पवृष्टिर्दिव्यो ध्वनिश्चामरमासनं च। भामण्डलं दुन्दुभिरातपत्रं, सत्प्रातिहार्याणि |जिनेश्वराणाम् ॥ १॥" पूजातिशयश्चान्यथानुपपत्त्या वागतिशयमाक्षिपति, न हि वागतिशयमन्तरेण तथा पूजाति ॥४१॥ शयो भवति, सामान्यकेवलिनामदर्शनात् , तदेवं ज्ञानातिशयादयश्चत्वारो मूलातिशया उक्ताः, एते च देहसौगन्ध्यादीनामतिशयानामुपलक्षणम्, एतेषु सत्सु तेषामवश्यं भावात् । तथा 'भद्रं' कल्याणं भवतु 'धूतरजसः' धूर्त-कम्पितं ४ है स्फोटितं रजो-बध्यमानं कर्म येन स धूतरजाः तस्य, अनेन सकलसांसारिकक्लेशविनिर्मुक्तावस्थामाह, यतो वध्यमा- २६ 4555 REmiratna ~93~
SR No.035038
Book TitleSavruttik Aagam Sootraani 1 Part 38 Nandisootra Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages528
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy