________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.................... मूलं [-]/गाथा ||३|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
अन्वयिज्ञानसिद्धिः
नन्दीवृत्तिः
प्रत सूत्रांक ||३||
॥३७॥
SACROSSA
दीप अनुक्रम
विकल्पेऽपि यत्पूर्वक्षणे वृत्तं तदपरक्षणो न वेत्ति, यच्चापरक्षणे वृत्तं न तत्पूर्वक्षणः, ततः कथमेष दीर्घकालिकोऽनु- स्यूतकरूपतया प्रतीयमानोऽर्थनिश्चयादिव्यवहारो घटते ? । अपि च-भवन्मतेन ज्ञानस्वार्थपरिच्छेदव्यवस्थाऽपि नोपपद्यते, अर्थाभाचे ज्ञानस्योत्पादाद, अर्थकार्यतया तस्याभ्युपगमात्, 'नाकारणं विषय' इति वचनात् , न च वाच्यं तत उत्पन्नमिति तस्य परिच्छेदकम्, इन्द्रियस्याप्यर्थवत्परिच्छेदप्रसक्तः, ततोऽप्युत्पादात्, तदभावेऽभावात्, नापि सारूप्यात् , तस्यापि सर्वदेशविकल्पाभ्यामयोगात्, तथाहि-न सर्वात्मनाऽर्थेन सह सारूप्यं, सर्वात्मनाऽर्थेन सह सारूप्ये ज्ञानस्य जडरूपताप्रसक्तेः, अन्यथा सर्वात्मना सारूप्यायोगात् , नाप्येकदेशेन, सर्वस्य सर्वार्थपरिच्छेदकत्वप्रसङ्गात् , सर्वस्यापि ज्ञानस्य सर्वैरपि वस्तुभिः सह केनचिदंशेनान्ततः प्रमेयत्वादिना सारूप्यसम्भवात् , आह च भवदाचार्योऽपि धर्मकीर्तिनिनयप्रस्थाने-"सर्वात्मना हि सारूप्ये, ज्ञानमज्ञानतां ब्रजेत् । साम्ये केनचिदंशेन, सर्वं सर्वस्य वेदनम् ॥ १॥" न च सारूप्यादर्थपरिच्छेदव्यवस्थितावर्थसाक्षात्कारो भवति, परमार्थतोऽर्थस्य परोक्षत्वात् , ततो योऽयं प्रतिप्राणि प्रसिद्धः सकलैरपीन्द्रियैर्यथायोगमर्थसाक्षात्कारो यच्च गुरूपदेशश्रवणं शास्त्रनिरीक्षणं वा यवशात्तत्त्वं ज्ञात्वा मोक्षाय प्रवृत्तिः तत्सर्वमेकान्तिकक्षणिकपक्षाभ्युपगमे विरुध्यते, स्यादेतत्-परमार्थत एतदेव, तथाहि न ज्ञानं कस्यचित् परिच्छेदकम् , उक्तनीत्या ग्राहकत्वायोगात्, नापि तत् कस्यचित्परिच्छेद्य, तत्रापि ग्राह्यग्राहकत्वायोगात् , ततो ग्राखग्राहकाकारातिरिक्तं ज्ञानमेव केवलं खसंविदितरूपत्वात् वयं प्रकाशते, तेनाद्वैत
M॥३७॥
२६
~85