SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ आगम (४४) [भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:) .................... मूलं [-]/गाथा ||३|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति: प्रत सूत्रांक ||३|| कपरमाणुन्यतिक्रममात्रम् , अत एवोत्पत्तिव्यतिरेकेण नान्या तेषां क्रिया सङ्गतिमुपपद्यते, 'भूतिर्येषां क्रिया सैव,I कारकं सेव चोच्यते' इतिवचनात् , ततो ज्ञानक्षणानामुत्पत्त्यनन्तरं न मनागव्यवस्थानं, नापि पूर्वापरक्षणाभ्या-13 मनुगमः, तस्मान्न तेषां परस्परखरूपावधारणं, नाप्युत्पत्त्यनन्तरं कोऽपि व्यापारः, ततः कथमर्थोऽयं मे पुरः दिसाक्षात्प्रतिभासते इत्येवमर्थनिश्चयमात्रमप्यनेकक्षणसम्भवि अनुस्यूतमुपपद्यते ?, तदभावाच कुतः सकलजगतो रागद्वेषादिदुःखसङ्कुलतया परिभायनं ?, कुतो वा दीर्घतरकालानुसन्धानेन शास्त्रार्थचिन्तनं ?, यत्प्रभावतः सम्यगुपायमभिज्ञाय कृपाविशेषात् मोक्षाय घटनं भवेदिति । ननु सर्वोऽयं व्यवहारो ज्ञानक्षणसन्तत्यपेक्षया, नैकक्षणम४/धिकृत्य, तत्के यमनुपपत्तिरुद्भाव्यते ?, उच्यते, सुकुमारप्रज्ञो देवानांप्रियः, सदैव सप्तघटिकामध्यमिष्टान्नभोदिजनमनोज्ञशयनीयशयनाभ्यासेन सुखैधितो न वस्तुयाथात्म्यावगमे चित्तपरिक्लेशमधिसहते, तेनास्माभिरुक्तमपि न सम्यगवधारयसि, ननु ज्ञानक्षणसन्ततावपि तदवस्वैवानुपपत्तिः, तथाहि-वैकल्पिका अवैकल्पिका वा ज्ञानक्षणाः |परस्परमनुगमाभावादविदितपरस्परखरूपाः, न च क्षणादूर्द्धमवतिष्ठन्ते, ततः कथमेष पूर्वापरानुसन्धानरूपो दीर्घकालिकः सकलजगहुःखितापरिभाषनशास्त्रविमर्शादिरूपो व्यवहार उपपद्यते ?, अक्षिणी निमील्य परिभाव्यतामे-14 तत् , यदप्युच्यते स्वग्रन्थेषु-निर्विकल्पकमकारमुत्पन्नं पूर्वदर्शनाहितवासनाप्रबोधात्तं विकल्पं जनयति येन पूर्वापरानुसन्धानात्मकोऽर्थनिश्चयादिव्यवहारः प्रवर्त्तते, तदप्यतेनापाकृतमवसेयं, यतो विकल्पोऽप्यनेकक्षणात्मकः, ततो181 CREA5C425 दीप अनुक्रम inflimmatra HIRainrary.org ~84 ~
SR No.035038
Book TitleSavruttik Aagam Sootraani 1 Part 38 Nandisootra Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages528
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy