________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.................... मूलं [-]/गाथा ||३|| ........... पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्रांक ||३||
दीप अनुक्रम
मेव तत्त्वं, यस्तु तथार्थनिश्चयादिको व्यवहारः सोऽनादिकालसंलीनवासनापरिपाकसम्पादितो द्रष्टव्यः, तदप्ययुक्तम् , तवासनाया अपि विचार्यमाणाया अघटमानत्वात् , तथाहि-सा वासना असती सती वा?, न तावदसती, असतः खर-14
विषाणस्येव सकलोपाख्याविकलतया तथा तथाऽर्थप्रतिभासहेतुत्वायोगाद्, अथ सती तर्हि सा ज्ञानाद् व्यत्यरैसाक्षीत् न वा?, व्यत्यरेक्षीचेदद्वैतहानिः, द्वयस्याभ्युपगमाद्, अपि च-सा ज्ञानाद् व्यतिरिक्ता सती एकरूपा वा स्वाद-121
नेकरूपा चा?, न तावदेकरूपा एकरूपत्वे तस्या नीलपीताद्यनेकप्रतिभासहेतुत्वायोगात्, स्वभावभेदेन विना भिन्न-1814 टा भिन्नार्थक्रियाकरणविरोधात् , अथानेका तर्हि नामान्तरेणार्थ एव प्रतिपन्नः, तथाहि-सा वासना ज्ञानादू व्यतिरिक्ता अनेकरूपा च, अर्थोऽप्येवंरूप एवेति, अथाव्यतिरिक्ता साऽपि च पूर्व विज्ञानजनिता विशिष्टज्ञानान्तरोत्पादन-14
समर्था शक्तिः, आह च प्रज्ञाकरगुप्तः-“वासनेति हि पूर्वविज्ञानजनितां शक्तिमामनन्ति वासनाखरूपविदः" एवं 12 द्रातर्हि पूर्वपूर्वविज्ञानजनिताः कालभेदेन तत्तद्विशिष्टविशिष्टतरज्ञानोत्पादनसमर्थाः शक्तयोऽनेकाः प्रबन्धेनानुवर्तमानाः18
तिष्ठन्ति, तत एकस्मिन्नपि ज्ञानक्षणेऽनेका वासनाः सन्ति, शक्तीनामेव वासनात्वेनाभ्युपगमात् , तासां च ज्ञानक्ष-IN कणादव्यतिरेकादेकस्याः प्रबोधे सर्वासामपि प्रबोधः प्रामोति, अन्यथाऽव्यतिरेकायोगात् , ततो युगपदनन्तविज्ञाना४|नामुदयप्रसङ्गः, स चायुक्तः, प्रत्यक्षबाधितत्वात् । अन्यथ-ज्ञाने विनश्यति तदन्यतिरेकाचा अपि निरन्वयमेव |विनष्टाः, ततः कथं तत्सामर्थ्यात्कालभेदेन तत्तद्विशिष्टविशिष्टतरज्ञानान्तरप्रसूतिः, स्वादेतत्-पूर्वमेव विज्ञानं १३
~86~