SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ आगम (४४) [भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:) ............... मूलं -1/गाथा ||३|| ...... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति: TE प्रत सूत्रांक ||३|| कस्योपकर्ता उपघातको वा?, ज्ञानक्षणानां च क्षणमात्रावस्थायितया परमार्थत उपकर्तुमपकर्तुं वा अशक्यत्वात् , तन्न तत्त्ववेदिनः पुत्रादिष्वात्मीयाभिनिवेशो नापि वैरिषु द्वेषो, यस्तु लोकानामात्मात्मीयाद्यभिनिवेशः सोऽनादिवासनापरिपाकोपनीतो वेदितव्यः, अतत्त्वमूलत्वात् , ननु यदि न परमार्थतः कश्चिदुपकार्योपकारकभावः तर्हि कथमुच्यते-भगवान् सुगतः करुणया सकलसत्त्वोपकाराय देशनां कृतवानिति, क्षणिकत्वमपि च यद्येकान्तेन तर्हि तत्त्ववेदी क्षणानन्तरं विनष्टः सन् न कदाचनाप्येवं भूयो भविष्यामीति जानानः किमर्थं मोक्षाय यत्नमारभते ?, तदयुक्तम् , अभिप्रायापरिज्ञानात् , भगवान् हि प्राचीनायामवस्थायामयस्थितः सकलमपि जगद् रागद्वेषादिदुःखसङ्कुलमभिजानानः कथमिदं सकलमपि जगत् मया दुःखादुद्धर्तव्यमिति समुत्पत्रकृपाविशेषो नैराम्यक्षणिकत्वादिकमवगच्छन्नपि तेषामुपकार्यसत्त्वानां निक्लेशक्षणोत्पादनाय प्रजाहितो राजेब खसन्ततिशुद्धबै सक| लजगत्साक्षात्करणसमर्थः खसन्ततिगतविशिष्टक्षणोत्पत्तये यत्नमारभते, सकलजगत्साक्षात्कारमन्तरेण सर्वेषामसूण-18 |विधानमुपकर्तुमशक्यत्वात् , ततः समुत्पन्न केवलज्ञानः पूर्वाहितकृपाविशेषसंस्कारवशात् कृतार्थोऽपि देशनायां प्रवर्तते हैं इति, तदेवं श्रुतमप्यात्मप्रज्ञया निर्दोष नैरात्म्यादि वस्तुतत्त्वं परिभाव्य भावतः तथैव भावयतो जन्तोर्भावनाप्रकर्ष-12 विशेषतो वैराग्यमुपजायते, ततो मुक्तिलाभः, यस्त्वात्मानमभिमन्यते न तस्य मुक्तिमम्भवो, यत आत्मनि परमाथतया विद्यमाने तत्र स्नेहः प्रवर्तते, तत्स्नेहवशाच तत्सुखेषु परितर्षवान् भवति, तृष्णावशाच सुखसाधनेषु दोषान् दीप अनुक्रम A CSC ~80
SR No.035038
Book TitleSavruttik Aagam Sootraani 1 Part 38 Nandisootra Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages528
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy