________________
आगम
(४४)
प्रत
सूत्रांक
||3||
दीप
अनुक्रम
[3]
[भाग-३८] “नन्दी” - चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [-]/गाथा ||३||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
श्रीमलय
गिरीमा नन्दीवृत्तिः
॥ ३४ ॥
फलगोचरा यथाऽऽगममेवमवसेया- "जं कुच्छियानुयोगो पयइविसुद्धस्स होइ जीवस्स । एएसि मो नियाणं बुहाण न य सुंदरं एयं ॥ १ ॥ रुर्वपि संकिलेसोऽभिस्संगो पीइमाइलिङ्गो उ । परमसुहपचणीओ एयंपि असोहणं चेव ॥ २ ॥ विसओ य मंगुरो खलु गुणरहिओ तह य तहतहारूवो । संपत्ति निष्फलो केवलं तु मूलं अणत्थानं ॥ ३ ॥ जम्मजरामरणाईविचित्तरूवो फलं तु संसारो । वुहजणनित्रेयकरो एसोऽवि तहाविहो चैव ॥ ४ ॥" अपि चसूत्रानुसारेण ज्ञानादिषु यो नैरन्तर्येणाभ्यासः तद्रूपाऽपि भावना वेदितव्या, तस्यापि रागादिप्रतिपक्षभूतत्वात्, न हि तत्त्ववृत्त्या सम्यग्ज्ञानाद्यभ्यासे व्यापृतमनस्कस्य स्त्रीशरीररामणीयकादिविषये चेतः प्रवृत्तिमातनोति, तथाऽनुपलम्भात् । शौद्धोदनीयाः पुनरेवमाहुः - नैरात्म्यादिभावना रागादिक्लेशप्रहाणिहेतुः, नैरात्म्यादिभावनायाः सकलरागादिविपक्षभूतत्वात्, तथाहि-नैरात्म्यावगतौ नात्माभिनिवेशः, आत्मनोऽवगमाभावाद्, आत्माभिनिवेशाभावाच न पुत्रभ्रातृकलत्रादिष्वात्मीयाभिनिवेशः, आत्मनो हि य उपकारी स आत्मीयो, यश्च प्रतिघातकः स द्वेष्यः, यदा त्वात्मैव न विद्यते किन्तु पूर्वापरक्षण त्रुटितानुसन्धानाः पूर्वपूर्व हेतुप्रतिबद्धा ज्ञानक्षणा एव तथा तथोत्पद्यन्ते तदा कः
१ यत् कुत्सितेऽनुयोगः प्रकृतिविशुद्धस्य भवति जीवस्य । एतस्य ( एतत् ) निदानं बुधानां न च सुन्दरमेतत् ॥ १ ॥ रूपमपि संक्केशः अभिष्वङ्गः प्रीयाविलिङ्गस्तु परमसुखप्रत्यनीक एवोऽप्यशोभन एव ॥ २ ॥ विषया अपि महराः खलु गुणरहिताः तथा च तथा तथारूपाः । संप्राप्तिनिष्फलाः केवलं मूल नयनाम् ॥ ३ ॥ जन्मजरामरण: दिविचित्ररूपः फलं तु संसारः बुधजननिर्वेदकर एषोऽपि तथापि एव ॥ ४ ॥
Eucation Internationa
For Park Use Only
~79~
१५
नैरात्म्यखंडनं.
.
॥ ३४ ॥
२५