________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.................... मूलं [-]/गाथा ||३|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
RAN
प्रत
सूत्रांक ||३||
शव्यभिचारि, द्वयेनापि विमुक्तायां कचिद्रागदर्शनात् , तस्मादभ्यासजनितोपचयपरिपाकं कम्मैव विचित्रखभावतया
तदा तदा तत्तत्कारणापेक्षं तत्र तत्र रागादिहेतुरिति कर्महेतुका रागादयः । एतेन यदपि कश्चिदाह-पृथिव्यादिभूतानां धर्मा एते रागादयः, तथाहि-पृथिव्यम्बुभूयस्त्वे रागः तेजोवायुभूयस्त्वे द्वेषो जलवायुभूयस्त्वे मोह इति, तदपि निराकृतमवसेयं, व्यभिचारात्, तथाहि-यस्थामेवावस्थायां रागः सम्मतः तस्यामेवावस्थायां द्वेषो मोहोऽपि च दृश्यते, |तत एतदपि यत्किञ्चित् , तस्मात् कर्महेतुका रागादयतकर्मनिवृत्तौ निवर्तन्ते, प्रयोगश्चात्र-ये सहकारिसम्पाद्या./५ | यदुपधानादपकर्षिणः ते तदत्यन्तवृद्धौ निरन्वयविनाशधर्माणो, यथा रोमहर्षादयो वहिवृद्धी, भावनोपधानादपकर्षिणश्च सहकारिसम्पाद्या रागादय इति, अत्र सहकारिसम्पाद्या इति विशेषणं सहभूखभाववोधादिव्यवच्छेदार्थ, | यदपि च प्रागुपन्यस्त प्रमाण-पदनादिमत् न तद्विनाशमाविशति यथाऽऽकाशमिति, तदप्यप्रमाणं, हेतोरनैकान्तिकत्वात् , प्रागभावन व्यभिचारात् , तथाहि-प्रागभावोऽनादिमानपि विनाशमाविशति, अन्यथा कार्यानुत्पत्तेः, भाव- भावनाजनाधिकारी च सम्यग्दर्शनादिरत्नत्रयसम्पत्समन्वितो वेदितव्यः, इतरस्य तदनुष्ठानप्रवृत्त्यभावेन तस्य मिथ्यारूप-४ |त्वात् , आह च-"नाणी तवंमि निरओ चारित्ती भावणाएँ जोगोत्ति" सा च रागादिदोषनिदानखरूपविषय| मानी तपसि निरतश्चारित्री भावनाया योग्य इति ।
दीप अनुक्रम
For P
LOW
~78~