________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.................... मूलं -1/गाथा ||२|| ...... पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्रांक ||२||
हारलक्षणः सहानवस्थानलक्षणश्च, तत्र परस्परपरिहारलक्षणः तादात्म्यप्रतिषेधे यथा घटपटयोः, न खलु घटः पटा-1 त्मको भवति नापि पटो घटात्मकः, 'न सत्ता सदन्तरमुपैती'ति वचनात् , ततोऽनयोः परस्परपरिहारलक्षणो विरोधः, एवं सर्वेषामपि वस्तूनां भावनीयम् , अन्यथा वस्तुसाकर्यप्रसक्तेः, यस्तु सहानंवस्थानलक्षणो विरोधः स परस्परं| बाध्यबाधकभावसिद्धौ सिक्ष्यति, नान्यथा, यथा वह्निशीतयोः, तथाहि-विवक्षिते प्रदेशे मन्दं मन्दमभिज्वलितवति वह्रौ शीतस्यापि मन्दं मन्दं भावः, यदा पुनरत्यर्थमभिज्वाला विमुञ्चति वह्निः तदा सर्वथा शीतस्याभाव इति | भवत्यनयोर्विरोधः, उक्तं च-"अविकलकारणमेकं तदपरभावे यदा भवन्न भयेत् । भवति विरोधः स तयोः शी| तहुताशात्मनोईष्टः ॥ १॥" न चैवं वचनसंवेदनयोः परस्परं वाध्यबाधकमायो, न हि संवेदने तारतम्येनोत्कर्षमा-13 सादयति वचखितायाः तारतम्येनापकर्ष उपलभ्यते, तत्कथमनयोः सहानवस्थानलक्षणो विरोधः ?, अथ सर्ववेदी| वक्ता नोपलब्ध इति विरोध उधुष्यते, तदयुक्तम् , अत्यन्तपरोक्षो हि भगवान् , ततः कथमनुपलम्भमात्रेण तस्याभावनिश्चयः ?, अरश्यविषयस्यानुपलम्भस्याभावनिश्चयकत्वायोगात्, आह च प्रज्ञाकरगुप्त:-“बाध्यबाधकभावः कः, सातां यघुक्तिसंविदी। तादृशोऽनुपलब्धिश्चदुच्यतां सैव साधनम् ॥१॥ अनिश्चयकरं प्रोक्तमीक्षानुपलम्भनम् । तन्नात्यन्तपरोक्षेषु, सदसत्ताविनिश्चयौ ॥२॥" अथ वचनं विवक्षाधीनं विवक्षा च वक्तुकामता सा च रागो रागादिमतश्च सर्वज्ञत्वाभावो, वीतरागस्य सर्वज्ञत्वाभ्युपगमात्, ततः कथमिव वक्तृत्वात् नासर्वज्ञत्वानुमानमिति ?, तदसद्, वसुकाम
दीप अनुक्रम
Saintas
ana
~54~