________________
आगम
(४४)
प्रत
सूत्रांक
[ ५७ ]
॥८२
-८४||
दीप
अनुक्रम [१५०
-१५४]
[भाग-३८] “नन्दी” - चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [ ५७ ]/ गाथा ||८२-८४|| ........
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
तच परिकर्म सिद्धश्रेणिकापरिकर्मादिमूलभेदापेक्षाया सप्तविधं मातृकापदाद्युत्तरभेदापेक्षवा व्यशीतिविधं, तथ समूलोत्तरभेदं सकलमपि सूत्रतोऽर्थतश्च व्यवच्छिन्नं, यथागतसम्प्रदायतो वा वाच्यं एतेषां च सिद्धश्रेणिकापरिकर्मादीनां सप्तानां परिकर्मणामाद्यानि पर परिकर्माणि स्वसमयवक्तव्यतानुगतानि, स्वसिद्धान्तप्रकाशकानीत्यर्थः, ये तु गोशालप्रवर्तिता आजीविकाः पापंडिनस्तन्मतेन च्युताच्युतश्रेणिका षट्परिकर्मसहितानि (ताः), सप्तापि परिकर्माणि प्रज्ञाप्यन्ते, सम्प्रत्येध्वेव परिकर्मसु नयचिन्ता, तत्र नयाः सप्त नैगमादयः, नैगमोऽपि द्विधा - सामान्यग्राही विशेषग्राही च तत्र यः सामान्यग्राही स सङ्ग्रहं प्रविष्टो यस्तु विशेषग्राही स व्यवहारं, आह च भाष्यकृत् - "जो सामन्नरगाही स नेगमो संग गओ अहवा । इयरो वबहारमिओ जो तेण समाणनिद्देसो ॥ १ ॥” शब्दादयश्च त्रयोऽपि नया एक एव नयः परिकल्प्यते, तत एवं चत्वार एवं नयाः, एतैश्चतुर्भिर्नयैराद्यानि पट् परिकर्माणि खसमयवक्तव्यतया परिचिन्त्यन्ते, तथा चाह चूर्णिकृत् -"इयाणि परिकम्मे नयचिंता, नेगमो दुविहो- संगहिओ असंगहिओ य, तत्थ संगहिओ संगहं पविट्ठो असंगहिओ वबहारं, तम्हा संगहो वबहारो उज्जुसुओ सहाहया य एको, एवं चउरो नया, एएहिं चउहिं नएहिं छ ससमइगा परिकम्मा चिंतिजति” तथा चाह सूत्रकृत् – 'छ चउकनइयाई' ति, आद्यानि पद् परिकर्माणि चतुर्नविकानि चतुर्नयोपेतानि, तथा त एवं गोशालप्रवर्त्तिता आजीविकाः पाखण्डिनस्त्रेराशिका उच्यन्ते, कस्मादिति चेदुच्यते, इह ते सबै वस्तु व्यात्मकमिच्छन्ति, तद्यथा - जीवोऽजीवो जीवाजीवश्च
For Parts Only
~ 488~
परिकर्म
सूत्राणामघिकारः
५
१०
१३