________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............... मूलं [४७]/गाथा ||८१...|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्राक
[४७]
-6, 462
ईश्वरस्तु सर्वजगत्कतृत्वेन सर्वज्ञत्वेन च नोपलब्धः, ततस्तत्र तथाखमावत्वकल्पनाऽवश्यं पर्यनुयोगमाश्रयते, यदि जानवायपुनरदृष्टेऽपि तथाखभावता कल्पना पर्यनुयोगानाश्रयाऽभ्युपगम्येत तर्हि सर्वोऽपि वादी तं तं पक्षमाश्रयन् परेण वि- धिकार। क्षोभितस्तत्र तत्र तथास्वभावताकल्पनेन परं निरुत्तरीकृत्य लब्धजयपताक एव भवेत् , उक्तं च-“यत्किञ्चिदात्मा-IN ऽभिमतं विधाय, निरुत्तरस्तत्र कृतः परेण । वस्तुखभावैरिति वाच्यमित्थं, तदोत्तरं स्वाद्विजयी समस्तः ॥१॥" किंच-सर्वं यदि जगदीश्वरकृतं मन्यते तर्हि सर्वाण्यपि शास्त्राणि सकलदर्शनगतानि तेन प्रवर्तितानीति प्राप्तं, तानि |च शास्त्राणि परस्परविरुद्धार्थानि, ततोऽवश्यं कानिचित् सत्यानि कानिचिदसत्यानि, ततः सत्यासत्योपदेशदानात् | कथमसी प्रमाणम् ?, उक्तं च-"शास्त्रान्तराणि सर्वाणि, यदीश्वरविकल्पतः। सत्यान्योपदेशश्च (स्य) प्रमाणं दानतः कथम् ? ॥१॥" अथ न सकलानि शास्त्राणीश्वरेण कारितानि किन्तु सत्यान्येव ततो न कश्चिदोषावकाशः, तर्हि शास्त्रान्तरवदेव नेश्वरेणान्यदपि व्यधायीति हता तब पक्षसिद्धिरिति । अन्यच्च-पारम्भूतं संस्थानादि बुद्धिमत्कारणपूर्वकत्येनोपलब्धं तारग्भूतमेवान्यत्रापि बुद्धिमन्तमात्मनो हेतुमनुमापयति, यथा जीर्णदेवकूलकूमादिगतं, न शेष, न हि सन्ध्याऽभ्रमरागवल्मीकादिगतसंस्थानाद्यात्मनो बुद्धिमन्तं कर्तारमनुमापयति, तथाप्रतीतेरभावात , तद्तस्य संस्थानादेर्बुद्धिमत्कारणत्वेन निश्चयाभावात् , तथा भूभूधरादिगतमपि संस्थानादिकं न बुद्धिमत्कारणपूर्वकत्वेन निश्चितमिति कथं तदशादुद्धिमतः कर्तुरनुमानम् ,अथ मन्येथाः-तदपि संस्थानादि तादग्भूतमेव संस्थानादिशब्दवाच्यत्वात,
दीप अनुक्रम [१४०]
CCCC
~452~