________________
आगम
(४४)
प्रत
सूत्रांक
[ ४७ ]
दीप
अनुक्रम
[१४०]
[भाग-३८] “नन्दी” – चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [ ४७ ]/ गाथा ||८१...|| .....
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४ ] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
श्रीमलयगिरीया
नन्दीष्टत्तिः
॥२२०॥
Emirati
| प्रपातादिरूपं कस्मादनुभावयति ?, न हि मध्यस्थभावमवलम्बमानाः परमकरुणा परितचेतसः प्रेक्षावन्तो निरर्थके परपीडाहेती कर्मणि प्रवर्तन्ते, क्रीडार्था भगवतस्तथा प्रवृत्तिरिति चेत्, यद्येवं तर्हि कथमसौ प्रेक्षावान् ?, तस्य हि प्रवर्त्तने क्रीडामात्रमेव फलं, ते पुनः प्राणिनः स्थाने २ प्राणैर्वियुज्यन्ते, उक्तं च- "क्रीडार्थं तस्य वृत्तिश्चेत्, प्रेक्षा| पूर्वक्रिया कुतः ? । एकस्य क्षणिका तृतिरन्यः प्राणैर्विमुच्यते ॥ १ ॥ अपिच - क्रीडा लोके सरागस्योपलभ्यते भगवांश्च वीतरागः ततः कथं तस्य क्रीडा सङ्गतिमङ्गति ?, अथ सोऽपि सराग इष्यते तर्हि शेषजन्तुरिवावीतरागत्वात् न सर्वज्ञो नापि सर्वस्य कर्त्तेत्यापतितं, अथ रागादियुतोऽपि सर्वज्ञः सर्वस्य कर्त्ता च भवति तथास्वभावस्वात् ततो न कश्चिद्दोषो न हि खभावे पर्यनुयोगो घटनामुपपद्यते, उक्तं च - " इदमेवं न वेत्येतत्कस्य पर्यनुयोज्यताम् ? । अग्निर्दहति नाकाशं, कोऽत्र पर्यनुयुज्यताम् ? ॥ १ ॥” तदेतदसम्यक्, यतः प्रत्यक्षतस्तथारूपखभावेऽवगते यदि पर्यनुयोगो विधीयते तत्रेदमुत्तरं विजृम्भते - यथा खभावे पर्यनुयोगो न भवतीति, यथा प्रत्यक्षेणोपलभ्यमाने वहेर्दा दहतो दाहकत्वरूपे स्वभावे, तथाहि--यदि तत्र कोऽपि पर्यनुयोगमाधत्ते -यथा कथमेष वह्निदह कस्वभावो जातो?, यदि वस्तुत्येन तर्हि व्योमापि किं न दाहकस्वभावं भवति ?, वस्तुत्वाविशेषादिति, तत्रेदमुत्तरं विधीयते, दाहकत्वरूपो हि खभावो वहेः प्रत्यक्षतः एवोपलभ्यते, ततः कथमेष पर्यनुयोग मर्हति ? न हि दृष्टेऽनुपपन्नता नाम, तथा चोक्तम् - "खभावेऽध्यक्षतः सिद्धे, यदि पर्यनुयुज्यते । तत्रेदमुत्तरं वाच्यं, न दृष्टेऽनुपपन्नता ॥ १ ॥”
For Parts Only
~451~
अज्ञानवाद्यधिकारः
२०
॥२२० ॥ २५
ayora