________________
आगम
(४४)
प्रत
सूत्रांक
[ ४७ ]
दीप
अनुक्रम
[१४०]
[भाग-३८] “नन्दी” – चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [ ४७ ]/ गाथा ||८१...|| .....
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४ ] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
तनत्वात् स्वभावत एव चेत्प्रवर्त्तन्ते तर्हि सदैव तेषां प्रवर्त्तनं भवेत् न च भवति, तस्मादवश्यं स्थित्वा स्थित्वा अज्ञानवाद्यप्रवर्त्तने केनचित्प्रेक्षावता प्रवर्त्तकेन भवितव्यं, सकलस्यापि च जगतः स्थित्वा २ फलं साधयतः प्रवर्त्तक ईश्वर एवो ४ धिकारः पपद्यते, नान्य इतीश्वरसिद्धिः, तथाऽपरमनुमानं - यत्पारिमण्डल्यादिलक्षणसन्निवेश विशेषभाक् तबेतनावत्कृतं यथा घटादि, पारिमण्डल्यादिलक्षणसन्निवेशविशेषभाक् च भूभूधरादिकमिति, तदेतदयुक्तं, सिद्धसाधनेन पक्षस्य प्रसिद्धसम्बन्धत्वात् तथाहि सकलमपीदं विश्ववैचित्र्यं वयं कर्म्मनिबन्धनमिच्छामो, यतोऽमी वैताढ्य हिमवदादयः पर्वता भरतैरावतविदेहान्तरद्वीपादीनि क्षेत्राणि तथा तथा प्राणिनां सुखदुःखादिहेतुतया यत्परिणमन्ते तत्र तथापरिणमने तत्तन्निवासिनामेव तेषां जन्तूनां कर्म्म कारणमवसेयं, नान्यत्, तथा च दृश्यते एव पुण्यवति राज्यमनुशासति भूपतौ तत्कर्म्मप्रभावतः सुभिक्षादयः प्रवर्त्तमानाः, कर्म च जीवाश्रितं, जीवाश्च बुद्धिमन्त चेतनावत्त्वात्, ततो बुद्धिमत्कारणाधिष्ठितत्वे चेतनावत्कृतत्वे च साध्यमाने सिद्धसाधनं, अथ बुद्धिमान् चेतनावान् वा विशिष्ट एवेश्वरः कश्चित्साध्यते तेन न सिद्धसाधनं, तर्हि दृष्टान्तस्य साध्यविकलता, वास्यादौ च घटादौ चेश्वरस्याधिष्ठायकत्वेन कारणत्वेन वा | व्याप्रियमाणस्यानुपलभ्यमानत्वाद्, वार्द्धकिकुम्भकारादीनामेव तत्रान्वयतो व्यतिरेकतो वा व्याप्रियमाणानां निश्श्रीयमानत्वात्, अथ वार्द्धक्यादयोऽपि ईश्वरप्रेरिता एव तत्र २ कर्मणि प्रवर्त्तन्ते न खतः ततो न दृष्टान्तस्य साध्यविकलता, नन्वेवं तर्हि ईश्वरोऽप्यन्येनेश्वरेण प्रेरितः खकर्मणि प्रवर्त्तते, न खतो, विशेषाभावात् सोऽप्यन्येनेश्वरेण प्रेरित इति विकाल
For Penal Use Only
~ 448~
५
१०
१३
waryra