SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [४७] दीप अनुक्रम [१४०] [भाग-३८] “नन्दी” – चूलिकासूत्र - १ (मूलं + वृत्ति:) मूलं [ ४७ ]/ गाथा ||८१...|| ..... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४ ] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः श्रीमलय विकारः क्रोशन्तीति, तदेतदपि बालिशजल्पितम्, इतरेतराश्रयदोषप्रसङ्गात्, तथाहि सहचारिणां भरतादीनां पूर्वादित्वं का- ४ अज्ञानवाद्यगिरीया ॐ लगत पूर्वादित्वयोगात् कालस्य च पूर्वादित्वं सहचारिभरतादिगतपूर्वादित्वयोगतः, तत एकासिद्धावन्यतरस्याप्यसिद्धिः, नन्दीवृत्तिः । उक्तं च “एकत्वव्यापितायां हि, पूर्वादित्वं कथं भवेत् । सहचारिवशात्तच्चेदन्योऽन्याश्रयताऽऽगमः ॥ १ ॥ सहचा ॥२१८॥ रिणां हि पूर्वत्वं, पूर्वकालसमागमात् । कालस्य पूर्वादित्वं च, सहचार्यवियोगतः ॥ २ ॥ प्रागसिद्धावेकस्य कथमन्यस्य सिद्धिरिति तन्नायं पक्षः श्रेयान्, अथ द्वितीयः पक्षः, सोऽप्ययुक्तो, यतः समयादिरूपे परिणामिनि कालेऽविशिटेऽपि फलवैचित्र्यमुपलभ्यते, तथाहि – समकालमारभ्यमाणाऽपि मुद्रपक्तिरविकला कस्यचिद् दृश्यते अपरस्य तु कालान्तरेऽपि न, तथा समकालमेकस्मिन्नेव राजनि सेव्यमाने सेवकस्यैकस्य फलमचिराद् भवति अपरस्य तु कालान्तरेऽपि न, तथा समकालमपि क्रियमाणे कृष्यादिकर्म्मण्येकस्य परिपूर्णा धान्यसम्पदुपजायते अन्यस्य तु खण्डस्फुटिता न वा किञ्चिदपि ततो यदि काल एव केवलः कारणं भवेत् तर्हि सर्वेषामपि सममेव मुद्रवत्त्वादि फलं भवेत् न च भवति तस्मान्न कालमात्रकृतं विश्ववैचित्र्यं, किन्तु कालादिसामग्रीसापेक्षं तत्तत्कर्म्मनिबन्धनमिति स्थितं ॥ यदपि |चेश्वरवादिनो ब्रुवते - 'ईश्वरकृतं जगदिति तदप्यसमीचीनं, ईश्वरग्राहकप्रमाणाभावात्, अथास्ति तद्वाहकं प्रमाणमनुमानं, तथाहि यत्स्थित्वा स्थित्वाऽभिमतफलसम्पादनाय प्रवर्त्तते तद्बुद्धिमत्कारणाधिष्ठितं यथा वास्यादि द्वैधी- ४ २५ करणादौ, प्रवर्त्तते च स्थित्वा स्थित्वा सकलमपि विश्वं स्वफलसाधनायेति, न खलु वास्यादयः खयमेव प्रवर्तन्ते तेषामचे Education International For Pasta Lise Only ~447~ २० ॥२१८॥
SR No.035038
Book TitleSavruttik Aagam Sootraani 1 Part 38 Nandisootra Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages528
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy