SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ आगम (४४) [भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:) ............. मूलं [४७]/गाथा ||८१...|| ........ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति: प्रत सूत्राक [४७] धिकानां पाखण्डिकशतानां प्रतिक्षेपः सूत्रकृताङ्गे शेषेषु च प्रकरणेषु पूर्षाचार्यैरनेकधा युक्तिभिः कृतस्ततो ययमपि अज्ञानवाद्यस्थानाशून्यार्थं पूर्वाचार्यकृतं तेषां प्रतिक्षेपं सझेपतो दर्शयामः-तत्र ये कालवादिनः सर्व कालकृतं मन्यन्ते तान् | धिकारः प्रति ब्रूमः-कालो नाम किमेकखभावो नित्यो ब्यापी? किंवा समयादिरूपतया परिणामी?, तत्र यद्याद्यः पक्षः तदयुक्तं, तथाभूतकालग्राहकप्रमाणाभावात् , न खलु तथाभूतं कालं प्रत्यक्षेणोपलभामहे, नाप्यनुमानेन, तदविनाभाविलिङ्गाभावात् , अथ कथं तदविनाभाविलिङ्गाभाषो ? यावता दृश्यते भरतरामादिपु पूर्वापरव्यवहारः, स च न वस्तुखरूपमात्रनिमित्तो, वर्तमाने च काले वस्तुखरूपस्य विद्यमानतया तथाब्यवहारप्रवृत्तिप्रसक्तेः, ततो यन्निमित्तोऽयं भरतरामादिषु पूर्वापरब्यवहारः स काल इति, तथाहि-पूर्वकालयोगी पूर्वो भरतचक्रवर्ती अपरकालयोगी चापरोरामादिरिति, ननु यदि भरतरामादिषु पूर्वापरकालयोगतः पूर्वापरव्यवहारस्तर्हि कालस्यैव कथं स्वयं पूर्वापरव्यवहारः, तदन्यकालयोगादिति चेत् , न, तत्रापि स एव प्रसङ्ग इत्यनवस्था, अथ मा भूदेष दोष इति तस्य खयमेव पूर्वत्वमपरत्वं चेष्यते नान्यकालयोगादिति, तथा चोक्तम्-"पूर्वकालादियोगी यः, स पूर्वाद्यपदेशभाक् । पूर्वापरत्वं तस्यापि, स्वरूपादेव नान्यतः ॥ १॥" तदप्याकण्ठपीतासवप्रलापदेशीयं, यत एकान्तेनैको व्यापी नित्यः कालोऽभ्युपगम्यते, सतः कथं तस्य पूर्णादित्यसम्भवः, अथ सहचारिसम्पर्कपशादेकस्यापि तथात्वकल्पना, तथाहि-सहचारिणो भरतादयः पूर्वोः । अपरे च रामादयोऽपरास्ततस्तत्सम्पर्कवशात्कालस्यापि पूर्वापरव्यपदेशः, भवति च सहचारिणो व्यपदेशो यथा मञ्चाः दीप अनुक्रम [१४०] XERCANCHECK ~446~
SR No.035038
Book TitleSavruttik Aagam Sootraani 1 Part 38 Nandisootra Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages528
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy