________________
आगम
(४४)
प्रत
सूत्रांक
||R||
दीप
अनुक्रम
[२]
[भाग-३८] “नन्दी” - चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [-]/गाथा ||२||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
यते ततः स तस्य सम्बन्धी, ननु स उपकारः ततो भिन्नोऽभिन्नो वेत्यादि तदेवावर्त्तते इत्यनवस्था । अपि च-कुतः | प्रमाणाद्वचनस्या पौरुषेयत्वाभ्युपगमः ?, कर्तुरस्मरणादिति चेत्, न तस्याप्यसिद्धत्वात्, तथाहि -स्मरन्ति जिनप्रणीतागमतत्त्ववेदिनो वेदस्य कर्तृन् पिप्पलादप्रभृतीन् स कर्तृस्मरणवादः तेषां मिथ्यारूप इति चेत्, क इदानीमेवं सति पौरुषेयः, सर्वस्याप्यपौरुषेयत्वप्रसक्तेः तथाहि-- कालिदासादयोऽपि कुमारसम्भवादिष्वात्मानमन्यं वा प्रणेतारमुपदिशन्त एवं प्रतिक्षेतुं शक्यन्ते, मिथ्या त्वमात्मानमन्यं वा कुमारसम्भवादिषु प्रणेतारमुपदिश सीति, ततः कुमारसम्भवादयोऽपि ग्रन्थाः सर्वेऽप्यपौरुषेयाः भवेयुः तथा च कः प्रतिविशेषो वेदे ? येन स एव प्रमाणतथाऽभ्युपगम्यते न शेषागमाः, अपि च-यौष्माकीणैरपि पूर्वमहर्षिभिः सकर्तृत्वं वेदस्याभ्युपगतमेव, तथा च तद्भन्थः| 'ऋगगिरावृचश्चकुः सामानि सामगिरा' विति, अथ तत्र करोतिः स्मरणे वर्त्तते न निष्पादने, दृष्टच करोतिरर्थान्तरेऽपि वर्त्तमानो, यथा संस्कारे, तथा च लोके वक्तारः - पृष्ठं मे कुरु पादौ मे कुर्विति, अत्र हि संस्कारे एत्र करोतिवर्त्तते, नापूर्वनिर्वर्त्तने, सम्भवति, अशक्यक्रियत्वात्, ततोऽन्यथानुपपत्त्या संस्कारे एवं करोतिर्वर्त्तते, वेदविषये तु नान्यथाऽनुपपन्नं किमपि निबन्धनमस्ति ततः कथं तत्र स्मरणे वर्त्तयितुं शक्यते ?, स्यादेतद्-पदि वेदविषये करोतिः स्मरणे न वर्चेत तर्हि वेदस्य प्रामाण्यं न स्याद्, अथ च प्रामाण्यमभ्युपगम्यते तच्चापौरुषेयत्वा देव, अन्यथा सर्वागमानामपि प्रामाण्यप्रसक्तेः, तत्तोऽत्रापि करोतिः प्रामाण्यान्यथानुपपत्त्या स्मरणे व इति, तदे
For Parts Only
~ 44~
५
१०
१३
org