________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.................... मूलं [-]/गाथा ||२|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
श्रीमलयगिरीया
वचनस्यापौरुषेयत्व खडनम्।
प्रत
नन्दीवृत्तिः
सूत्रांक
॥१७॥
||२||
तदसत्, इतरेतराश्रयदोषप्रसङ्गात् , तथाहि-प्रामाण्ये सिद्धे सति तदन्यथानुपपत्त्या करोतेः स्मरणे वर्त्तनं, करोतेः स्मरणे वृत्ती चापौरुषेयत्वसिद्धितः प्रामाण्यमित्सेकासिद्धावन्यतरासिद्धिा, अनैकान्तिकं च कर्तुरस्सरणं, 'वटे बटे वैश्रवण' इत्यादिशब्दानां पौरुषेयाणामपि कषुरस्मृतेः, यत्नवान् तत्कारमुपलभते एवेति चेत्, न अवश्यं तदुपलम्भ- सम्भवः, नियमाभावात्, किंच-अपौरुषेयत्वेनाभ्युपगतस्य वेदस्य कर्ता नैवास्ति कश्चित् पौरुषेयत्वेनाभ्युपगतस्य च वटे वटे चैश्रवण इत्यादेरस्तीति न प्रमाणात् कुतश्चिद्विनिश्चयः, किन्तु परोपदेशात्, स च भवतो न प्रमाणं, परस्य रागादिपरीतत्वेन यथावद्वस्तुतत्त्वापरिज्ञानात्, ततः कर्तृभावसन्देह इति सन्दिग्धासिद्धोऽप्ययं हेतुः, एतेन यदन्यदपि साधनमवादीद् वेदवादी-'वेदाध्ययनं सर्वं गुर्वध्ययनपूर्वकं, वेदाध्ययनत्वात्, अधुनातनवेदाध्ययनवदिति, तदपि निरस्तमवसेयं, एवमपौरुषेयत्वसाधने सर्वस्याप्यपौरुषेयत्वप्रसक्तेः, तथाहि-कुमारसम्भवाध्ययनं सधै गुवंध्ययनपूर्वकं, कुमारसम्भवाध्ययनवाद, इदानीन्तनकुमारसम्भवाध्ययनयदिति कुमारसम्भवादीनामध्ययनानादितासिद्धेरपौरुषेयत्वं दुर्निवारं, न च तेपामपौरुषयत्वं, खयंकरणपूर्वकत्वेनापि तदध्ययनस्य भावाद्, एवं वेदाध्ययनमपि किश्चित्स्वयंकरणपूर्वकमपि भविष्यतीति वेदाध्ययनत्वादिति व्यभिचारी हेतुः, स्यादेतत्-वेदाध्ययनं खयंकरणपूर्वकं न भवति, वेदानां खयं कर्तुमशक्तः, तथा चात्र प्रयोगः-पूर्वेषां वेदरचनायामशक्तिः, पुरुषत्वाद्, १ कारणं अपौरुषेयत्वे यक्षः प्राप्तस्म व्याप्तत्वेन ।
।
दीप अनुक्रम
॥१७॥
lunasaram.org
~45~