________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.......... मूलं [४५-४६]/गाथा ||८१...|| ............. पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक
[४५-४६]
दीप अनुक्रम [१३८
मतिमेधादिगुणानां तत्तद्धर्मविशिष्टानन्तधर्मात्मकवस्तुप्रतिपत्तिभावात् , एतच्च टीकाकृतो व्याख्यानं, चूर्णिकृत-आचारापुनराह-अभिधानाभिधेयवशतो गमा भवन्ति, ते चानन्ताः, अनेन च प्रकारेण ते वेदितव्याः, तद्यथा-'सुयं मे प्राधिकार। आउसंतेणं भगवया एवमक्खाय'मिति, इदं च सुधर्मस्वामी जम्बूखामिनं प्रत्याह, तत्रायमर्थः-श्रुतं मया हे आयु
म.४६ मन् ! तेन-भगवता बर्द्धमानखामिना एवमाख्यातं, अथवा श्रुतं मया 'आयुष्मदन्ते' आयुष्मतो-भगवतो बर्द्धमानखामिनोऽन्ते-समीपे 'ण'मिति वाक्यालङ्कारे, तथा च भगवता एवमाख्यातं, अथवा श्रुतं मयाऽऽयुष्मता, अथवा श्रुतं मया भगवत्पादारविन्दयुगलमामृशता, अथवा श्रुतं मया गुरुकुलवासमावसता, अथवा श्रुतं मया हे आयुष्मन् ! तणति प्रथमार्थे तृतीया तद्भगवता एवमाख्यातं, अथवा श्रुतं मयाऽऽयुष्मन् ! तेणे'ति तदा भगवता एवमाख्यातं, अथवा श्रुतं मया हे आयुष्मन् ! 'ते णति षड्जीवनिकायविषये तत्र वा विवक्षिते समवसरणे स्थितेन भगवता एचमाख्यातं, अथवा श्रुतं मम हे आयुष्मन्! वचैते, यतस्तेन भगवता एवमाख्यातं, एवमादयस्तं तमर्थमधिकृत्य गमा भवन्ति, अभिधानवशतः पुनरेवं गमाः-"सुयं मे आउस आउसं सुयं मे मे सुयं आउस"मित्येवमर्थभेदेन तथा २८ पदानां संयोजनतोऽभिधानगमा भवन्ति, एवमादयः किल गमाः अनन्ता भवन्ति, तथा अनन्ताः पर्यायाः, ते च स्वप
रभेदभिन्ना अक्षरार्धगोचरा वेदितव्याः, तथा परीताः-परिमितास्त्रसा-द्वीन्द्रियादयः, अनन्ताः स्थावराः-वनस्पतिकाद यादयः, 'सासयकडनिवद्धनिकाइय'त्ति शाश्वता-धर्मास्तिकायादयः कृताः-प्रयोगविलसाजन्या घटसन्ध्याभरागादयः,
-१३९]
Hreemurary.org
~434~