________________
आगम
(४४)
प्रत
सूत्रांक
[४५-४६]
दीप
अनुक्रम
[१३८
-१३९]
[भाग-३८] “नन्दी” – चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [४५-४६] / गाथा ||८१...|| पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
व्यवच्छेदार्थ, शाक्यादयोऽपि हि लोके श्रमणा व्यपदिश्यन्ते, तदुक्तम्- "निग्गंध सक तावस गेरुय आजीव पंचहा समणा" इति तेषामाचारो व्याख्यायते, तत्राऽऽचारो-ज्ञानाचाराद्यनेकभेदभिन्नो गोचरो - भिक्षाग्रहणविधिलक्षणः विनयो-ज्ञानादिविनयः वैनयिकं विनयफलं कर्मक्षयादि शिक्षा ग्रहणशिक्षा आसेवनशिक्षा च, विनेयशिक्षेति चूर्पिणकृत्, तत्र विनेयाः- शिष्याः, तथा भाषा - सत्यासत्यामृषा च अभाषा- मृषा सत्यामृषा च, चरणं-त्रतादि, करणंपिण्डविशुज्यादि, उक्तं च- 'वय (५) समणधम्म (१०) संजम (१७) बेयावचं (१०) च वंभगुत्तीओ (९) । नाणाइतियं (३) तब (१२) कोहनिग्गहाई (४) चरणमेयं ॥१॥ पिंडविसोही (४) समिई (५) भावण (१२) पडिमा (१२) य इंदि यनिरोहो (५) । पडिलेहण (२५) गुत्तीओ (३) अभिग्गहा (४) चैव करणं तु ॥ २ ॥” 'जायामायावित्तीउ'त्ति यात्रा - संयमयात्रा मात्रा - तदर्थमेव परिमिताहारग्रहणं वृत्तिः - विविधैरभिग्रहविशेषैर्वर्त्तनं,' आचारश्च गोचरचे' त्यादिर्द्वन्द्रः, आचारगोचरविनयवैन विकशिक्षा भाषाऽभाषाचरणकरण यात्रामात्रावृत्तयः आख्यायन्ते, इह यत्र कचिदन्यतरोपादानेऽन्तर्गतार्थाभिधानं तत्सर्व्वं तत्प्राधान्यख्यापनार्थमवसेयं, 'से समासओ' इत्यादि, स आचारः 'समासतः' सङ्क्षेपतः | पञ्चविधः प्रज्ञतः, तद्यथा - 'ज्ञानाचार' इत्यादि, तत्र ज्ञानाचार:- 'काले विणए बहुमाणुवहाणे तह अनिण्हवणे । वंजणअत्थतदुभए अट्टविहो नाणमायारो ॥१॥" दर्शनाचारः - "निस्संकिय निक्कंखिय निवितिगिच्छा अमूढदिट्ठी य ।
१ निर्मन्थाः शाक्याः तापसा गैहका आजीविकाः पथमा धमणाः ।
For Parts Only
~ 430~
आचाराङ्गाधि० सू. ४६
१०