SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [४४] दीप अनुक्रम [१३७] [भाग-३८] “नन्दी” – चूलिकासूत्र - १ (मूलं + वृत्ति:) मूलं [ ४४]/गाथा ||८१...|| ..... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४ ] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः श्रीमलयगिरीया नन्दीवृति: ॥२०८॥ कौशलेन धर्मदेशनादिषु ग्रन्थपद्धतिरूपतया भाषन्ते तदपि सर्व प्रकीर्णकं, भगवत ऋषभखामिन उत्कृष्टा श्रमण| सम्पदा आसीत् चतुरशीतिसहस्रप्रमाणा, ततो घटन्ते प्रकीर्णकान्यपि भगवतश्चतुरशीतिसहस्रसङ्ख्यानि, एवं मध्यमतीर्थकृतामपि सङ्ख्येयानि प्रकीर्णकसहस्राणि भावनीयानि, भगवतस्तु वर्द्धमानखामिनचतुर्दश श्रमणसहस्राणि तेन प्रकीर्णकान्यपि भगवतश्चतुर्द्दश सहस्राणि, अत्र द्वे मते- एके सूरयः प्रज्ञापयन्ति इदं किल चतुरशीतिसहस्रादिकं ऋष5. भादीनां तीर्थकृतां श्रमणपरिमाणं प्रधानसूत्रविरचनसमर्थान् श्रमणानधिकृत्य वेदितव्यं इतरथा पुनः सामान्य श्रमणाः प्रभूततरा अपि तस्मिन् २ ऋषभादिकाले आसीरन्, अपरे पुनरेवं प्रज्ञापयन्ति-ऋषभादितीर्थकृतां जीवतामिदं चतुरशीतिसहस्रादिकं श्रमणपरिमाणं प्रवाहतः पुनरेकैकस्मिन् तीर्थे भूयांसः श्रमणा वेदितव्याः, तत्र ये प्रधान सूत्रविरचनशक्तिसमन्विताः सुप्रसिद्धतद्वन्था अतत्कालिका अपि तीर्थे वर्त्तमानास्तत्राधिकृता द्रष्टव्याः, एतदेव मतान्तरमुपदर्शयन्नाह - 'अथयेत्यादि, अथवेति प्रकारान्तरोपदर्शने, यस्य ऋषभादेस्तीर्थकृतो यावन्तः शिष्यास्तीर्थे औत्पत्तिक्या वैनयिक्या कर्म्मजया पारिणामिक्या चतुर्विधया बुद्ध्या उपेताः समन्विता आसीरन् तस्य - ऋषभादेस्तावन्ति प्रकीर्णक सहस्राण्यभवन्, प्रत्येकबुद्धा अपि तावन्त एव, अत्रैके व्याचक्षते -इ एकैकस्य तीर्थकृतस्तीर्थेऽपरिमाणानि प्रकीर्णकानि भवन्ति, प्रकीर्णककारिणामपरिमाणत्वात्, केवलमिह प्रत्येकबुद्धरचितान्येव प्रकीर्णकानि द्रष्टव्यानि, प्रकीर्णकपरिमाणेन प्रत्येकबुद्धपरिमाणप्रतिपादनात् स्यादेतत्-प्रत्येकबुद्धानां शिष्यभावो विरुध्यते, ucation Internation For Parts Only ~427~ उत्कालिकावि० २० ॥२०८॥ २५ org
SR No.035038
Book TitleSavruttik Aagam Sootraani 1 Part 38 Nandisootra Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages528
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy