________________
आगम
(४४)
प्रत
सूत्रांक
[४४]
दीप अनुक्रम [१३७]
[भाग-३८] “नन्दी” – चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [४४]/गाथा ||८१...|| .....
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
संयमभावपरित्यागतो दुःखाद्यवाप्तिमुकुलनेन मुकुलिताः पुनस्तत्परित्यागेन पुष्पिताः प्रतिपाद्यन्ते ताः पुष्पिता उ च्यन्ते, अधिकृतार्थविशेषप्रतिपादिकाः पुष्पचूडाः, तथा 'वृष्णिदशा' इति 'नाम्न्युत्तरपदस्य वे'ति लक्षणवशादादिप|दस्यान्धकशब्दरूपस्य लोपः, ततोऽयं परिपूर्णः शब्दः - अन्धकवृष्णिदशा इति, अयं चान्वर्थः - अन्धकवृष्णिनराधिपकुले ये जातास्तेऽपि अन्धकवृष्णयः तेषां दशाः - अवस्थाश्चरितगतिसिद्धिगमनलक्षणा यासु ग्रन्थपद्धतिषु वर्ण्यन्ते ता अन्धकवृष्णिदशाः, अथवाऽन्धवृष्णिवक्तव्यताप्रतिपादिका दशा-अध्ययनानि अन्धकवृष्णिदशाः, आह च चूर्णिणकृत्“अन्धकयहिणो जे कुले अंधगसदलोवाओ वहिणो मणिया तेसिं चरियं गती सिज्झणा य जत्थ भणिया ता वहिदसाओ, दसत्ति अवस्था अज्झयणा वा" इति । 'एवमाइया' इत्यादि कियन्ति नामग्राहमाख्यातुं शक्यन्ते प्रकीर्णकानि ?, तत एवमादीनि चतुरशीतिः प्रकीर्णकसहस्राणि भगवतोऽर्हतः श्री ऋषभखामिनस्तीर्थकृतः, तथा सङ्घयेयानि प्रकीर्णकसहस्राणि मध्यमानामजितादीनां जिनवरेन्द्राणां तीर्थकराणाम्, एतानि च यस्य यावन्ति भवन्ति तस्य तावन्ति प्रथमानुयोगतो वेदितव्यानि, तथा चतुर्द्दश प्रकीर्णकसहस्राणि भगवतोऽर्हतो वर्द्धमानखामिनः, इयमंत्र भावना-इह भगवत ऋषभखामिनश्चतुरशीतिसहस्रसङ्ख्याः श्रमणा आसीरन्, ततः प्रकीर्णकरूपाणि चाध्ययनानि का |लिकोत्कालिकभेदभिन्नानि सर्वसङ्ख्यया चतुरशीतिसहस्रसङ्ख्यान्यभवन्, कथमिति चेत् ?, उच्यते, इह यद्भगवदर्ह दुपदिष्टं श्रुतमनुसृत्य भगवन्तः श्रमणा विरचयन्ति तत्सर्व प्रकीर्णकमुच्यते, अथवा श्रुतमनुसरतो यदात्मनो वचन
tratoாவி
For Parts Only
~426~
उत्कालिकाधि०
१०
१३
www.nary.org