________________
आगम
(४४)
प्रत सूत्रांक
[४४]
दीप
अनुक्रम [१३७]
[भाग-३८] “नन्दी” – चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [ ४४]/गाथा ||८१...|| ..... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
देशभेदोद्देशाधिकारेऽङ्गप्रविष्टमङ्गवाद्यं चेत्युपन्यस्तं तत्किमर्थं भूयस्तत्समासत इत्याद्युपन्यासेन तदेव न्यस्यते इति ?, उच्यते, इह सर्व एव श्रुतभेदा अङ्गानङ्गप्रविष्टरूपे भेदद्वय एवान्तर्भवन्ति तत एतदर्थख्यापनार्थं भूयोऽप्युद्देशेनाभिधानं, अथवाऽङ्गानङ्गप्रविष्टमर्हदुपदेशानुसारि ततः प्राधान्यख्यापनार्थं भूयोऽपि तस्योद्देशेनाभिधानमित्यदोषः, तत्राङ्गप्रविष्टमिति - दह पुरुषस्य द्वादशाङ्गानि भवन्ति, तद्यथा - शै पादौ द्वे जड़े द्वे उरुणी द्वे गात्रार्द्ध द्वौ बाहू श्रीवा शिरश्च, एवं श्रुतरूपस्यापि परमपुरुषस्याऽऽचारादीनि द्वादशाङ्गानि क्रमेण वेदितव्यानि, तथा चोक्तं- "पायदुर्ग जंघोरू गायदुगद्धं तु दो य बाहू य । गीवा सिरं च पुरिसो वारस अङ्गो सुयविसिद्धो ॥१॥" श्रुतपुरुषस्याङ्गेषु प्रविष्टमङ्गप्रविष्टम् - अङ्गभावेन व्यवस्थितमित्यर्थः, यत्पुनरेतस्यैव द्वादशाङ्गात्मकस्य श्रुतपुरुषस्य व्यतिरेकेण स्थितमङ्गवाद्यत्वेन - वस्थितं तदनङ्गप्रविष्टं, अथवा यद्गणधरदेवकृतं तदङ्गप्रविष्टं मूलभूतमित्यर्थः, गणधरदेवा हि मूलभूतमाचारादिकं श्रुतसुपरचयन्ति तेषामेव सर्वोत्कृष्टश्रुतलब्धिसम्पन्नतया तद्रचयितुमीशत्वात्, न शेषाणां ततः तत्कृतं सूत्रं मूलभूतमित्यङ्गप्रविष्टमुच्यते, यत्पुनः शेषैः श्रुतस्थविरैस्तदेकदेशमुपजीव्य विरचितं तदनङ्गप्रविष्टं, अथवा यत्सर्वदैव नियतमाचारादिकं श्रुतं तदङ्गप्रविष्टं तथाहि - आचारादिकं श्रुतं सर्वेषु क्षेत्रेषु सर्वकालं चार्थे क्रमं चाधिकृत्यैवमेव व्यवस्थितं ततस्त- दङ्गप्रविष्टमुच्यते, अङ्गप्रविष्टमङ्गभूतं मूलभूतमित्यर्थः, शेषं तु यच्छुतं तदनियतमतस्तदनङ्गप्रविष्टमुच्यते, उक्तं च
Education Intention
श्रीमलय
गिरीया नन्दीवृत्तिः
॥२०३॥
For Peralta Use Only
~417~
आवश्यक
कालिको कालि
कानि
१५
२०
॥२०३॥
२३.