________________
आगम
(४४)
प्रत
सूत्रांक
[४१]
दीप
अनुक्रम [१३४]
[भाग-३८] “नन्दी”- चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [४१]/गाथा ||८१...|| .....
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४ ] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
सुगन्धिपुष्पप्रकरप्रक्षेपादिना द्रव्यस्तवेन, तत्र सुगता अपि पर्यायास्तिकनयमतानुसारिभित्रैलोक्य निरीक्षितमहितपूजिता इप्यन्ते, तथा चाह स्वयम्भूः - "देवागमन भोयान चामरादिविभूतयः । मायाविष्वपि दृश्यन्ते, नातस्त्वमसि नो | महान् ॥ १ ॥” इति, ततस्तद्वयवच्छेदार्थे विशेषणान्तरमाह-'अतीतप्रत्युत्पन्नानागतज्ञैः' न चातीतानागतज्ञाः सुगताः सम्भवन्ति तेषामेकान्त क्षणिकत्वाभ्युपगमेन सर्वथाऽतीतानागतयोरसत्त्वाद्, असतां च ग्रहणासम्भवादित्यत्र बहु वक्तव्यं तच प्रायः प्रागेवोक्तमन्यत्र (च) धर्म्मसङ्ग्रहणीटीकादाविति नोच्यते, इह व्यवहारनयमतानुसारिभिः कैश्चिपयोऽप्यतीतप्रत्युत्पन्नानागतज्ञा इष्यन्ते, तथा च तद्बन्थः - "ऋषयः संयतात्मानः, फलमूलानिलाशनाः । तपसैव प्रपश्यन्ति, त्रैलोक्यं सचराचरम् ॥ १ ॥ अतीतानागतान् भावान्, वर्तमानांश्च भारत । ज्ञानालोकेन पश्यन्ति, त्यक्तसङ्गा जितेन्द्रियाः || २ ||" इत्यादि, ततस्तद्वयवच्छेदार्थमाह-'सर्वज्ञैः सर्वदर्शिभिः' ते तु ऋषयः सर्वज्ञाः सर्वदर्शिनथ न भवन्ति, ततस्तेषां व्युदासः । तदेवं द्रव्यास्तिकपर्यायास्तिकनयमतव्यवच्छेदफलतया विशेषणसाफल्यमुक्तं, विधित्रनयमताभिज्ञेन तु अन्यथापि विशेषणसाफल्यं वाच्यं, न कश्चिद्विरोधः, प्रणीतम् - अर्थकथनद्वारेण प्ररूपितं, किं त|दित्याह - 'द्वादशाङ्गं' श्रुतरूपस्य परमपुरुषस्याङ्गानीवाङ्गानि द्वादशाङ्गानि - आचाराङ्गादीनि यस्मिन् तत् द्वादशाङ्गं 'गणिपिडगं' ति गणो गच्छो गुणगणो वाऽस्यास्तीति गणी - आचार्यस्तस्य पिटकमिव पिटकं, सर्वस्वमित्यर्थः, गणि
Education International
For Park Use Only
~ 396~
सम्यक
श्रुताधि
कारः
५