SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ आगम (४४) [भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:) ............. मूलं [४१]/गाथा ||८१...|| ........ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति: प्रत सूत्राक [४१] श्रीमलय- रागादिरहितानामसम्भवात् ,ततो भगवद्भिरित्यनेन परपरिकल्पितानादिसिद्धाईद्वयवच्छेदमाह, अथ मन्येथाः-अनादि- सम्यकगिरीया शुद्धा अप्यर्हन्तो यदा खेच्छया समग्ररूपादिगुणोपेतं शरीरमारचयन्ति तदा तेऽपि भगवन्तो भवन्ति ततः कथं तेषां मिथ्याश्रुतं लन्दीवृत्तिः भव्युदास इत्याशङ्कापनोदाथ भूयोऽपि विशेषणान्तरमाह-'उत्पन्नज्ञानदर्शनधरैः' उत्पन्नं ज्ञानं-फेवलज्ञानं दर्शनं केवल-15 १९२॥ दर्शनं धरन्तीति उत्पन्नज्ञानदर्शनधराः, लिहादिभ्य'इत्यच् प्रत्ययः,न च येऽनादिविशुद्धास्ते उत्पन्नज्ञानदर्शनधरा भवन्ति [६] 'ज्ञानमप्रतिघं यस्ये सादिवचनविरोधात् , तत उत्पन्नज्ञानदर्शनधरैरिति विशेषणेन तेषां व्यवच्छेदो भवति [ग्रन्थान ६०००], ननु यद्येवं तर्हि उत्पन्नज्ञानदर्शनधरैरित्येतावदेवास्तामलं भगवद्भिरितिविशेषणोपादानेन, तदयुक्तम् , उत्पन्नज्ञानदर्शनधरा हि सामान्यकेवलिनोऽपि भवन्ति नच तेषामवश्यं समग्ररूपादिसम्भवः ततस्तत्कल्पानहतो मा ज्ञासिपुरमी विनेयजना इति समग्ररूपादिगुणप्रतिपत्त्यर्थं भगवद्भिरिति विशेषणोपादानं, तदेवं शुद्धद्रव्यास्तिकनयमतानुसारिकल्पितमुक्तव्यवच्छेदः कृतः, सम्प्रति पर्यायास्तिकनयमतानुसारिपरिकल्पितमुक्तव्यवच्छेदार्थ विशेषणान्तरमाह-'त्रैलोक्य-15 निरीक्षितमहितपजितः' प्रयो लोकाः त्रिलोका-भवनपतिव्यन्तरविद्याधरज्योतिष्कवैमानिकाः त्रिलोका एवं त्रैलोक्य, भेपजादित्वात् खार्थे ध्यण् प्रत्ययः, निरीक्षिताश्च ते महिताश्च ते पूजिताश्च ते निरीक्षितमहितपूजिताः, त्रैलोक्येन नि- १९२॥ रीक्षितमहितपूजिताः त्रैलोक्यनिरीक्षितमहितपूजिताः, तत्र निरीक्षिताः-मनोरथपरम्परासम्पत्तिसम्भवविनिश्चयसमुस्थसम्मदविकाशिलोचनैरालोकिता महिता-यथावस्थितानन्यसाधारणगुणोत्कीर्तनलक्षणेन भावस्तवेनार्चिताः पूजिताः दीप अनुक्रम [१३४] २५ ~395
SR No.035038
Book TitleSavruttik Aagam Sootraani 1 Part 38 Nandisootra Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages528
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy