________________
आगम
(४४)
प्रत
सूत्रांक [३९]
+
॥८१॥
दीप
अनुक्रम
[१३०
-१३२]
[भाग-३८] “नन्दी” - चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [ ३९ ] / गाथा ||८९ || .....
पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४४ ] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
गिरीया
श्रीमलय- स्सेत्यादि, अक्षरे - अक्षरस्योचारणेऽवगमे वा उब्धिर्यस्य सोऽक्षरलब्धिकः तस्य, अकाराद्यक्षरानुविद्धश्रुतलब्धिसमन्वितस्येत्यर्थः, लब्ध्यक्षरं भावश्रुतं समुत्पद्यते, शब्दादिग्रहणसमनन्तरमिन्द्रिय मनो निमित्तं शब्दार्थ पर्यालोचनानुसारि शानन्दवृत्तिःङ्खोऽयमित्याद्यक्षरानुविद्धं ज्ञानमुपजायते इत्यर्थः, नन्विदं लभ्ध्यक्षरं सब्ज्ञिनामेव पुरुषादीनामुपपद्यते नासञ्ज्ञिनामे॥१८८॥ केन्द्रियादीनां तेषामकारादीनां वर्णानामवगमे उच्चारणे वा लब्ध्यसम्भवात्, न हि तेषां परोपदेशश्रवणं सम्भवति येनाकारादिवर्णानामवगमादि भवेत्, अथचैकेन्द्रियादीनामपि लब्ध्यक्षरमिध्यते, तथाहि पार्थिवादीनामपि भावश्रुतमुपवर्ण्यते- 'दवसुंयाभामिवि भावसुर्य पत्थिवाईण' मिति वचनप्रामाण्याद्, भावश्रुतं च शब्दार्थ पर्यालोचनानुसारि विज्ञानं, शब्दार्थ पर्यालोचनं चाक्षरमन्तरेण न भवतीति, सत्यमेतत्, किन्तु यद्यपि तेषामेकेन्द्रियादीनां परोपदेशश्रवणासम्भवस्तथापि तेषां तथाविधक्षयोपशमभावतः कश्चिदव्यक्तोऽक्षरलाभो भवति यद्वशादक्षरानुपतं श्रुतज्ञानमुपजायते, इत्थं चैतदङ्गीकर्त्तव्यं, तथाहि-- तेपामप्याहाराद्यभिलाप उपजायते, अभिलापश्च प्रार्थना, सा च यदीदमहं प्राप्नोमि ततो भव्यं भवतीत्याद्यक्षरानुविद्वैव, ततस्तेषामपि काविदव्यक्ताक्षरलब्धिरवश्यं प्रतिपत्तव्या, ततस्तेषामपि लब्ध्यक्षरं सम्भवतीति न कश्चिद्दोपः । तथा लब्ध्यक्षरं पोढा, तद्यथा - 'श्रोत्रेन्द्रियलब्ध्यक्षर' मित्यादि, इह यच्छोत्रेन्द्रियेण शब्दश्रवणे सति शाङ्खोऽयमित्याद्यक्षरानुविद्धं शब्दार्थ पर्यालोचनानुसारि विज्ञानं तच्छ्रोत्रेन्द्रियलब्ध्यक्षर,
१ द्रव्यश्रुताभावेऽपि भावतं पार्थिवादीनाम् ॥
Jan Eucatur
For Parts Only
~387~
अक्षरानक्षरश्रुतं यू. ३९
२०
॥१८८॥ २५