________________
आगम
(४४)
प्रत
सूत्रांक
[२९]
दीप
अनुक्रम
[११३]
[भाग-३८] “नन्दी”- चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [२९]/गाथा ||७४...|| .....
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
| शब्दपरमाणवो हि उत्पत्तिदेशादारभ्य सर्वतो जलतरङ्गन्यायेन प्रसरमभिगृह्णानाः श्रोत्रेन्द्रियदेशमागच्छन्ति, ततः सम्भवत्युपघातः, ननु यदि श्रोत्रेन्द्रियं देशं प्राप्तमेव शब्दं गृह्णाति नाप्रासं तर्हि यथा गन्धादौ गृह्यमाणे न तत्र दूरासनादितया भेदप्रतीतिरेवं शब्देऽपि न स्यात्, प्राप्तो हि विषयः परिच्छिद्यमानः सर्वोऽपि सन्निहित एव, तत्कथं तत्र दूरासन्नादिभेदप्रतीतिर्भवितुमर्हति ?, अथ च प्रतीयते शब्दो दूरासन्नादितया, तथा च लोके वक्तारः श्रूयन्ते-कस्यापि दूरे शब्द इति, अन्यच्च यदि प्राप्तः शब्दो गृह्यते श्रोत्रेन्द्रियेण तर्हि चाण्डालोक्तोऽपि शब्दः श्रोत्रियेण श्रोत्रेन्द्रियसंस्पृष्टो गृपते इति श्रोत्रेन्द्रियस्य चाण्डालस्पर्शदोषप्रसङ्गः, तन्न श्रेयः श्रोत्रेन्द्रियस्त्य प्राप्यकारित्वं, तदेतदतिमहामोहस्य मलीमसभाषितं, त (य) तो यद्यपि शब्दः प्राप्तो गृह्यते श्रोत्रेन्द्रियेण तथापि यत उत्थितः शब्दस्तस्य दुरासन्नत्वे शब्देऽपि खभाववैचित्र्यसम्भवाद्दुरासन्नादिभेदप्रतीतिर्भवति, तथाहि - दूरादागतः शब्दः क्षीणशक्तिकत्वात्खिन्न उपलक्ष्यते अस्पष्टरूपो वा, ततो लोको वदति-दूरे शब्दः श्रूयते, अस्य च वाक्यस्यायं भावार्थी - दूरादागतः शब्दः श्रूयते इति, स्थादेतद्-एवमतिप्रसङ्गः प्राप्नोति, तथाहि एतदपि वक्तुं शक्यते दूरे रूपमुपलभ्यते, किमुक्तं भवति ? - दूरागतं रूपमुपलभ्यते इति, ततश्चक्षुरपि प्राप्यकारि प्राप्नोति, न चेष्यते, तस्मान्नैतत्समीचीनमिति, तदयुक्तं यत इह चक्षुषो रूपकृतावनुग्रहोपघातौ नोपलभ्येते, श्रोत्रेन्द्रियस्य तु शब्दकृत उपघातोऽस्ति एतच प्रागेवोकं, ततो नातिप्रसङ्गापादनमुपपत्तिमत्, अन्यच - प्रत्यासन्नोऽपि जनः पवनस्य प्रतिकूलमवतिष्ठमानः शब्दं न शृगोति, पवनवर्त्मनि तु
For Park Use Only
~354~
श्रोत्रखप्रामिकारिता
१३
wor