________________
आगम
(४४)
प्रत
सूत्रांक
[२९]
दीप
अनुक्रम
[११३]
[भाग-३८] “नन्दी” - चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [२९]/गाथा ||७४...|| .....
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
श्रीमलय
गिरीया नन्दीवृत्तिः
॥ १७१ ॥
Jan Eratur
चोपघातो भवेत्, ननु दृश्यते मनसोऽपि हर्षादिभिरनुग्रहः, शरीरोपचयदर्शनात्, तथाहि - हर्ष प्रकर्षवशान्मनसोऽपि पुष्टता भवति, तद्वशाथ खशरीरस्योपचयः, तथोपघातोऽपि शोकादिभिर्दृश्यते, शरीर दौर्बल्योरः क्षतादिदर्शनात, अतिशोककरणतो हि मनसो विघातः सम्भवति, ततस्तद्वशाच्छरीरदौर्बल्य मतिचिन्तावशाच्च हृद्रोग इति, तदेतदतीवासम्बद्धं, यत इह मनसोऽप्राप्यकारित्वं साध्यमानं वर्त्तते विपयकृतानुग्रहोपघाताभावात् न चेह विषयकृतानुप्रहोपघाती त्वया मनसो दर्श्यते, तत्कथं व्यभिचारः ?, मनस्तु स्वयं पुद्गलमयत्वाच्छरीरस्यानुग्रहो घातौ करिष्यति, यथेष्टानि - ष्टरूप आहारः, तथाहि - इष्टरूप आहारः परिभुज्यमानः शरीरस्य पोषमाधत्ते, अनिष्टरूपस्तूपसङ्घातं (स्तूपघातं) तथा मनोऽप्यनिष्टपुद्गलोपचितमतिशोकादिचिन्ता निबन्धनं शरीरस्य हानिमादधाति, इष्टपुद्गलोपचितं च हर्षादिकारणं पुष्टिं उक्तं च- 'इंट्ठानिट्ठाहारऽज्भवहारे होंति पुट्ठिहाणीओ। जह तह मणसो ताओ पुग्गलगुणउत्ति को दोसो ? ॥१॥" तस्मात् मनोऽपि विषयकृतानुग्रहोपघाताभावादप्राप्यकारीति स्थितं ॥ इह सुगतमतानुसारिणः श्रोत्रमप्यप्राप्यकारि प्रपद्यन्ते, तथा च तद्रन्थः - "चक्षुः श्रोत्रं मनोऽप्राप्यकारी” ति, तदयुक्तं, इहाप्राप्यकारि तत्प्रतिपत्तुं शक्यते यस्य विपयकृतानुग्रहोपघाताभावो यथा चक्षुर्मनसोः, श्रोत्रस्य च शब्दकृत उपघातो दृश्यते, सद्योजातबालकस्य समीपे म हाप्रयत्नताडितझल्लरीझात्कारश्रवणतो यद्वा विद्युत्प्रपाते तत्प्रत्यासन्नदेशवर्त्तिनां निपश्रवणतो वधिरीभावदर्शनात्,
१] दानिष्टाद्वाराभ्यवहारे भवतः पुष्टिद्वानी यथा तथा मनसस्ते पुलगुणत्वादिति को दोषः ॥ १ ॥
For Parts Only
~ 353~
मनसोध्या
प्यकारिता
२०
॥ १७१ ॥
२५
yo