________________
आगम
(४४)
प्रत
सूत्रांक
[२७...]
*****
गाथा
||६२
-६५||
दीप
अनुक्रम
[९७
-१००]
[भाग-३८] “नन्दी”– चूलिकासूत्र - १ ( मूलं + वृत्तिः)
मूलं [२७] / गाथा ||६५ || .....
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
प्रभूते च कालेऽतिक्रान्ते निक्षेपग्राही तस्मान्नवलकात् जात्यंसुवर्णमयान् पणान् गृहीत्वा हीनवर्णकसुवर्णपणान् ताव - त्सङ्ख्याकान् तत्र प्रक्षितवान्, तथैव च स नवलकस्तेन सीवितः कतिपयदिनानन्तरं स नवलकस्वामी देशान्तरादागतः तं च नवलकं तस्य पार्श्वे याचितवान् सोऽपि नवलकं समर्पयामास, परिभावितं तेन मुद्रादिकं, तथैव दृष्टं, ततो मुद्रां स्फोटयित्वा यावत्पणान् परिभावयति तावद्धीनवर्ण कसुवर्णमयान् पश्यति, ततो बभूव राजकुले व्यबहारः, पृष्टः कारणिकैः - कः कालः आसीत् ? यत्र त्वया नवलको मुक्त इति, नवलकस्वामी आह-अमुक इति, ततः कारणिकेरुतं स चिरन्तन कालोऽधुनातन कालकृताश्च दृश्यन्तेऽमी पणाः, ततो मिथ्याभाषी नूनमेप निक्षेपग्राहीति दण्डितो, दापितश्चेतरस्य तावतः पणानिति । कारणिकानामीत्पत्तिकी बुद्धिः २१ । 'भिक्खु' त्ति भिक्षूदाहरणं, तद्भावनाकोऽपि कस्यापि भिक्षोः पार्थे सुवर्णसहस्रं निक्षिप्तवान्, कालान्तरे च याचते, स च भिक्षुर्न प्रयच्छति, केवलमय कल्ये वा ददामीति प्रतारयति, ततस्तेन द्यूतकारा अवलगिताः, ततस्तैः प्रतिपन्नं निश्चितं तव दापयिष्यामः, ततो द्यूतकारा रक्तपटवेपेण सुवर्णखुट्टिका गृहीत्वा भिक्षुसकाशं गता वदन्ति चन्त्रयं चैत्यवन्दनाय देशान्तरं विवासवो यूयं च परमसत्यतापात्रमत एताः सुवर्णखोटिका युष्मत्वार्थे स्थास्यन्ति, एतावति चावसरे पूर्वसङ्केतितः स पुरुष आगतो, याचते स्म च - भिक्षो ! समर्पय मदीयां स्थापनिकामिति, ततो भिक्षुणाऽभिनवमुच्यमान सुवर्णखुट्टिकालम्पटतया समर्पिता तस्य स्थापनिका तस्मै मा एतासामहमनाभागी जायेयेतिबुद्ध्या, तेऽपि च यूतकाराः किमपि मिषान्तरं
For Pasta Use Only
~324~
औत्पत्तिक्यों भिक्षु
स्थपनिका
५
१०
१३
or