________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............... मूलं [२७]/गाथा ||६५|| ....... ...................... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक
औत्पत्तिक्यांगजघृतन
[२७...]
दृष्टान्ती
गाथा ||६२-६५||
PRESEA5%
मद्भार्यया च, धूर्तेनान्यत्किमप्युक्तं, ततो दत्तं तस्याः कारणिकर्विरेकौषधं, जातो विरेको, दृष्टाः पुरीपान्तर्गतास्तिलाः, दत्ता सा धिगजातीयाय, निर्धाटितो धूर्तः। कारणिकानामौत्पत्तिकी बुद्धिः ८। 'गय'त्ति गजोदाहरणं, तद्भावनावसन्तपुरे नगरे कोऽपि राजा बुद्ध्यतिशयसम्पन्नं मत्रिणमेकमन्वेषमाणश्चतुष्पथे हस्तिनमालानस्तम्भे बन्धयित्वा घोपणामचीकरत्-योऽमुं हस्तिनं तोलयति तस्मै राजा महतीं वृत्तिं प्रयच्छतीति, इमां च घोषणां श्रुत्वा कश्चिदेकः पुमान् तं हस्तिनं महासरसि नावमारोहयामास, आस्मिंश्वारूढे यावत्प्रमाणा नौजले निममा तावत्प्रमाणां रेखामदात् , ततः समुत्तारितो हस्ती तटे, प्रक्षिप्सा गण्डशैलकल्पा नावि प्रावाणः, ते च तावत्प्रक्षिप्ता यावरेखां मर्यादीकृत्य जले निमग्ना नौः, ततस्तोलिताः सर्वे ते पाषाणाः, कृतमेकत्र पलप्रमाणं निवेदितं च राजे-देव! एतावत्पलामाणो हस्ती वत्तेते, ततस्तुतोष राजा, कृतो मन्त्रिमण्डलमूर्दाभिषिक्तः परममत्री । तस्वीत्पत्तिकी बुद्धिः९। 'घयणत्ति' भाण्डः, तदुदाहरणं-विटो नाम कोऽपि पुरुषो राज्ञः प्रत्यासन्नवी, तं प्रति राजा निजदेवी प्रशंसति-अहो निरामया मे देवी या न कदाचिदपि बातनिसर्ग विदधाति, विटः प्राह-देव! न भवतीदं जातुचित्, राजाऽवादीतकथं ?, विट आह-देव ! धूर्त्ता देवी, ततो यदा सुगन्धीनि पुष्पाणि चूर्णयित्वा वासान समप्यति नासिकाने तदा ज्ञातव्यं-बातं विमुञ्चतीति, ततोऽन्यदा राजा तथैव परिभावितं, सम्यगवगते च हसितं, ततो देवी हसननिमित्त|कथनाय निवन्धं कृतवती, ततो राजाऽतिनिर्वन्धे कृते पूर्ववृत्तान्तमचीकथत् , ततश्रकोप देवी तस्मै विटाय, आज्ञप्तो
दीप अनुक्रम [९७
%
DImmumorary.orm
~316~