________________
आगम
(४४)
प्रत
सूत्रांक
[२७...]
गाथा
||६२
-६५||
दीप
अनुक्रम
[९७
-१००]
[भाग-३८] “नन्दी”– चूलिकासूत्र - १ ( मूलं + वृत्तिः)
मूलं [२७] / गाथा ||६५ || .....
पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४४ ] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
तो- देव! शीघ्रं समागम्यतां देवः सत्वरमाकारयति, ततो नन्दामापन्नसत्वामापृच्छय 'अम्हे रायगिहि पंडर कुड्डा गोवाला जड़ अम्हेहिं कज्जं तो एज्जह'त्ति एतद्वाक्यं कचिल्लिखित्वा श्रेणिको राजगृहं प्रति चलितवान् नन्दायाश्च देवलोकच्युतमहानुभावगर्भ सत्त्वप्रभावतः एवं दौहृदमुदपादि-यदहं यदि प्रवरकुञ्जरमधिरूढा निखिलजनेभ्यो ध नदानपुरस्सरमै भयदानं करोमीति, पिता च तदित्थम्भूतं दौहृदमुत्पन्नं ज्ञात्वा राजानं विज्ञप्य पूरितवान्, कालकमेण च प्रवृत्ते प्रसवसमये प्रातरादित्यविम्बमिव दश दिशः प्रकाशयन्नजायत परमसूनुः, तस्य च दौहृदानुसारेणाभय इति नाम चक्रे, सोऽपि चाभयकुमारो नन्दनवनान्तर्गतकल्पपादप इव तत्र सुखेन परिवर्द्धते, शास्त्रग्रहणादिकमपि यथाकालं कृतवान् । अन्यदा च स्वमातरं पप्रच्छ - मातः ! कथं मे पिताऽभूदिति ?, ततः सा कथयामास मूलत आरभ्य सर्वे यथावस्थितं वृत्तात्तं दर्शयामास च लिखितान्यक्षराणि, ततो मातृवचनतात्पर्यात्रगमतो लिखिताक्षरार्थावगमतश्च ज्ञातमभयकुमारेण यथा मे पिता राजगृहे राजा वर्त्तते इति, एवं च ज्ञात्वा मातरमभाणीत्-त्रजामो राजगृहे सार्थेन सह वयमिति, सा प्रत्यवादीत्-वत्स ! यद्भणसि तत्करोमीति, ततोऽभयकुमारः स्वमात्रा सह सार्थेन समं चलितः, प्राप्तो राजगृहस्य वहिः प्रदेशं ततोऽभयकुमारः तत्र मातरं विमुष्य किं वर्त्तते सम्प्रति पुरे ? कथं वा | राजा दर्शनीय ? इति विचिन्त्य राजगृहपुरं प्रविष्टः, तत्र च पुरप्रवेश एवं निर्जल कूपतटे समन्ततो लोकः समुदायेनावतिष्ठते, पृष्टं चाभयकुमारेण - किमित्येष लोकमेलापकः ?, ततो लोकेनोकं - कूपस्य मध्ये राजोऽङ्गुल्याभरणमास्ते, ३१३
Education International
For Penal Use Only
~312~
औत्पत्ति४ क्यां मुद्रिकायामभयकथा
५
१०