________________
आगम
(४४)
प्रत
सूत्रांक
[२७...]
गाथा
||६२
-६५||
दीप
अनुक्रम
[९७
-१००]
[भाग-३८] “नन्दी”– चूलिकासूत्र - १ ( मूलं + वृत्तिः)
मूलं [२७] / गाथा ||६५ || .....
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
इतश्च राजा अश्ववाहनिकायामश्चं वाहयन् कथञ्चिदेकाकीभूतस्तेन पथा समागन्तुं प्रावर्त्तत, तं च खलिखितनगरीमध्येन समागच्छन्तं रोहकोऽवादीत् - भो राजपुत्र ! मानेन पथा समागमः, तेनोक्तं किमिति ?, रोहक आह- किं त्वं राजकुलमिदं न पश्यसि ?, स राजा कौतुकवशात् सकलामपि नगरीं तदालिखितामवैक्षत, पप्रच्छ च तं वालकं-रे अन्यदा त्वया नगरी दृष्टाऽऽसीन्न वा ?, रोहक आह--नैव कदाचित्, केवल महमद्यैव स्वग्रामादिहागतः, ततश्चिन्तयामास राजा - अहो बालकस्य प्रज्ञातिशय इति, ततः पृष्टो रोहको वत्स । किं ते नाम क वा ग्राम इति ?, तेनोक्तं- रोहक इति मे नाम, प्रत्यासन्ने च पुरो ग्रामे वसामीति, अत्रान्तरे समागतो रोहकस्य पिता चलितौ च स्वग्रामं प्रति द्वावपि राजा च स्वस्थानमगमत्, चिन्तयति स्म च-ममैकोनानि मन्त्रिणां पञ्च शतानि विद्यन्ते, तयदि सकलमन्त्रिमण्डलमूर्धाभिषिक्तो महाप्रज्ञाऽतिशायी परमो मन्त्री सम्पद्यते ततो मे राज्यं सुखेनैधते, बुद्धिबलोपेतो हि राजा प्रायः शेषबलैरल्पबलोऽपि न पराजयस्थानं भवति परांश्च राज्ञो लीलया विजयते, एवं च चिन्तयित्वा कतिपयदिनानन्तरं रोहकबुद्धिपरीक्षानिमित्तं सामान्यतो ग्रामप्रधानपुरुषानुद्दिश्यैवमादिष्टवान् — यथा युष्मद्वामस्य बहिरतीय महती शिला वर्त्तते तामनुत्पाट्य राजयोग्य मण्डपाच्छादनं कुरुत, तत एवमादिष्टे सकलोऽपि ग्रामो राजादेशं कर्त्तुमशक्यं परिभावयन्नाकुलीभूतमानसो बहिः सभायामेकत्र मिलितवान्, पृच्छति स परस्परं - किमि - दानीं कर्त्तव्यं ?, दुष्टो राजादेशोऽस्माकमापतितो, राजादेशाकरणे च महाननर्थोपनिपातः, एवं च चिन्तया व्याकुलीभू
For Pale Only
~302~
औत्पत्तिकी बुद्धिदृष्टान्ताः
१३
Wary org