________________
आगम
(४४)
प्रत
सूत्रांक
[२७...]
गाथा
||६२
-६५||
दीप
अनुक्रम [९७
-१००]
[भाग-३८] “नन्दी”– चूलिकासूत्र - १ ( मूलं + वृत्तिः)
मूलं [२७] / गाथा ||६५ || .....
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४ ] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
श्रीमलय
गिरीया नन्दीवृत्तिः ॥१४६॥
तानां तेषां मध्यन्दिनमागतं, रोहकञ्च पितरमन्तरेण न भुझे पिता च ग्राममेलापके मिलितो वर्त्तते, ततः स ४ औत्पत्तिकी क्षुधा पीडितः पितुः समीपे समागत्य रोदितुं प्रावर्त्तत - पीडितोऽहमतीच क्षुधा, ततः समागच्छ गृहे भोजनायेति, भरतः प्राह-वत्स ! सुखितोऽसि त्वं न किमपि ग्रामकष्टं जानासि स प्राह-पितः ! किं किं तदिति ?, ततो भरतो राजादेशं सविस्तरमची कथत्, ततो निजबुद्धिप्रागल्भ्यवशात् झटिति कार्यस्य साध्यतां परिभाव्य तेनोकं माऽऽकुलीभवत यूयं खनत शिलाया राज्ञोचितमण्डपनिष्पादनायाधस्तात् सम्भांश्च यथास्थानं निवेशयत भित्तीश्चोपलेपनादिना प्रकारेणातीव रमणीयाः प्रगुणीकुरुत, तत एवमुक्ते सर्वैरपि ग्रामप्रधानपुरुषैर्भाव्यमिति प्रतिपन्नं गतः सर्वोऽपि ग्रामलोकः स्वस्वगृहे भोजनाय भुक्त्वा च समागतः शिलाप्रदेशे, प्रारब्धं तत्र कर्म, कतिपयदिनैश्च निष्पादितः परिपूर्णो मण्डपः कृता च शिला तस्याच्छादनं निवेदितं च राज्ञे राजनियुक्तैः पुरुषैः- देव! निष्पादितो ग्रामेण देवादेशः, राजा ग्राह--कथमिति ?, ततस्ते सर्वमपि मण्डपनिष्पादन प्रकारं कथयामासुः, राजा पप्रच्छ - कस्येयं बुद्धिः ?, तेऽवादिपुः- देव ! भरतपुत्रस्य रोहकस्य, एषा रोहकस्योत्पत्तिकी बुद्धिः । एवं सर्वेष्वपि संविधानकेषु योजनीयं, ततो भूयोऽपि राजा रोहक बुद्धिपरीक्षार्थी मेण्डकमेकं प्रेषितवान् एवं यावत्पलप्रमाणः सम्प्रति वर्त्तते पक्षातिक्रमेऽपि तावत्पलप्रमाण एव समर्पणीयो, न न्यूनो नाप्यधिक इति, तत एवं राजादेशे समागते सति सर्वोऽपि ग्रामो व्याकुलीभूतचेता वहिः सभायामेकत्र मिलितवान्, सगौरवमाकारितो रोहकः, आभाषितश्च ग्रामप्रधानैः पुरुषैः वत्स !
For Par Use Only
~303~
बुद्धि
दृष्टान्ताः
२०
॥१४६॥ २५