________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.................... मूलं [२७]/गाथा ||६४|| ....... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक
[२७...]
गाथा ||६२-६५||
मिढ ३ कुक्कड ४ वालुअ५ हत्थी ६ अगड ७ वणसंडे ८ापायस ९ अइआ १० पत्ते ११ खा- औत्पत्तिकी डहिला १२ पंच पिअरो अ १३ ॥६४॥ महुसित्थ १७ मुदि १८ अंके १९ नाणए २० भिक्खु बुद्धि
| दृष्टान्ताः २१ चेडगनिहाणे २२ । सिक्खा य २३ अत्थसत्थे २४ इच्छा य महं २५ सयसहस्से २६ ॥६५॥
आसामर्थः कथानकेभ्योऽवसेयः, तानि च कथानकानि विस्तरतोऽभिधीयमानानि ग्रन्थगौरवमापादयन्ति ततः संक्षेपणोच्यन्ते-उज्जयनी नाम पुरी, तस्याः समीपवर्ती कश्चिन्नटानामेको ग्रामः, तत्र च ग्रामे भरतो नाम नटः, तस्य भायों परासुरभूत् , तनयश्चास्य रोहिकाभिधोऽद्याप्यल्पवयाः, ततः सत्वरमेव खस्स स्वतनयस्य च शुश्रूषाकरणायान्या समानिन्ये वधूः, सा च रोहकस्य सम्यग् न वर्तते, ततो रोहकेण सा प्रत्यपादि-मातनं मे त्वं सम्यग् वर्त्तसे ततो ज्ञास्यसीति, ततः सा सेय॑माह-रे रोहक! किं करिष्यसि ?, रोहकोऽप्याह-तत्करिष्यामि येन त्वं मम पादयोरागत्य लगिष्यसीति, ततः सा तमवज्ञाय तूष्णीमतिष्ठत् , रोहकोऽपि तत्कालादारभ्य गाढसाताभिनिवेशोऽन्यदा निशि सहसा पितरमेवमभाणीव-भो भोः पितरेष पलायमानो गोहो याति, तत एवं बालकवचःIBI श्रुत्वा पितुराशका समुदपादि-नूनं विनष्टा मे महेलेति, तत एवमाशङ्कावशात्तस्यामनुरागः शिथिलीवभूव, ततो न तां सम्यक् संभाषते, नापि विशेषतस्तस्यै पुष्पताम्बूलादिकं प्रयच्छति, दूरतः पुनरपास्तं शयनादि, ततः सा चिन्तयामास-नूनमिदं बालकविचेष्टितम् , अन्यथा कथमकाण्ड एवैष दोषाभावे पराअखो जातः, ततो बालकमेवमवा
दीप अनुक्रम [९७
193
~300~