________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
......... मूलं [२४]/गाथा ||६०...|| ......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
मतिश्रुतयोभंद:
श्रीमलय- गिरीया नन्दीवृत्तिः ॥१४॥
प्रत
सत्राक
[२४]
X
दीप
श्रोत्रेन्द्रियलब्धिविकलत्वेऽपि तेषां किमपि सूक्ष्मं श्रुतं भविष्यति, अन्यथाऽऽहारादिसंज्ञाऽनुपपत्तेः, आह च भाष्यकृत-"जह सुहुमं भाविंदियनाणं दबिंदियावरोहेऽवि । तह दबसुयाभावे भावसुयं पत्थिवाईणं ॥१॥" ततः प्राक्तनमेव श्रुतलक्षणं समीचीन, नान्यदिति स्थितं । तदेवं लक्षणभेदाद्भेदमभिधाय सम्प्रति प्रकारान्तरेण भेदमभि|धित्सुराह-'मइपुवमित्यादि, 'पृ पालनपूरणयो रित्यस्य धातोः पूर्यते प्राप्यते पाल्यते च येन कार्य तत्पूर्व, औणादिको वकूप्रत्ययः, कारणमित्यर्थः, मतिः पूर्व यस्य तन्मतिपूर्व श्रुतं-श्रुतज्ञानं, तथाहि-मत्या पूर्यते प्राप्यते श्रुतं, न खलु मतिपाटवविभवमन्तरेण श्रुतविभवमुत्तरोत्तरमासादयति जन्तुः, तथाऽदर्शनात् , यच्च यदुत्कर्षापकर्षवशादुत्कर्षापकर्षभाक् तत्तस्य कारणं, यथा घटस्य मृत्पिण्डः, मत्युत्कर्षापकर्षवशाच श्रुतस्योत्कर्षापकों, ततः कारणं मतिः श्रुतज्ञानस्य, तथा पाल्यते-अवस्थिति प्राप्यते मत्या श्रुतं, श्रुतस्य हि दलं मतियथा घटस्य मृत्, तथाहि-श्रुतेष्वपि बहुषु ग्रन्थेषु यद्विषयं स्मरणमीहापोहादि वा अधिकतरं प्रवर्तते स ग्रन्थः स्फुटतरः प्रतिभाति, न शेषाः, एतच प्रतिप्राणि खसंवेदनप्रमाणसिद्धं, ततो यथोत्पन्नोऽपि घटो मृदभावे न भवति तथाखभावायां च मृदि तिष्ठन्त्यामवतिछते इति सा तस्य कारणम् , एवं श्रुतस्यापि मतिः कारणं, ततो युक्तमुक्तं मतिपूर्व श्रुतमिति । मतिपूर्वकता च श्रुतस्योपयोगापेक्षया द्रष्टव्या न तु लब्ध्यपेक्षया, लब्धेः समकालतया भवनात , एतब प्रागेवोक्तं, न मतिः श्रुतपू| यथा सूक्ष्मं भावन्द्रियविज्ञानं द्रव्येन्द्रियावरोधेऽपि । तथा द्रव्यश्रुताभावे भावश्रुतं पृथिव्यादीनाम् ॥ १॥
RECES
अनुक्रम [९३]
R॥१४॥
SAREAMMona
~293~