________________
आगम
(४४)
प्रत
सूत्रांक
[२४]
दीप
अनुक्रम
[९३]
[भाग-३८] “नन्दी” - चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [२४]/ गाथा ||६०...|| .....
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
तथा सूत्रेऽनेकशोऽभिधानात् संज्ञा चाभिलाष उच्यते, यत उक्तमावश्यकटीकायाम् -'आहारसंज्ञा आहाराभिलाषः क्षुद्वेदनीयप्रभवः खल्वात्मपरिणामविशेषः' इति, अभिलाषश्च ममैवंरूपं वस्तु पुष्टिकारि तद्यदीदमवाप्यते ततः समीचीनं भवतीत्येवं शब्दार्थोलेखानुविद्धः स्वपुष्टिनिमित्तभूतप्रतिनियतवस्तुप्रात्यध्यवसायः, स च श्रुतमेव, तस्य शब्दापर्यालोचनात्मकत्वात्, शब्दार्थपर्यालोचनात्मकत्वं च ममैवरूपं वस्तु पुष्टिकारि तद्यदीदमवाप्यते इत्येवमादीनां | शब्दानामन्तर्जल्पाकाररूपाणामपि विवक्षितार्थवाचकतया प्रवर्त्तमानत्यात्, श्रुतस्य चैवलक्षणत्वात् उक्तं च“इन्दियमणोनिमित्तं जं विन्नाणं सुयानुसारेणं । नियअत्थोत्तिसमत्थं तं भावसुयं मई से सं ॥१॥ ” 'सुयाणुसारेणं' ति | शब्दार्थ पर्यालोचनानुसारेण, शब्दार्थपर्यालोचनं च नाम वाच्यवाचकभावपुरस्सरीकारेण शब्दसंस्पृष्टस्वार्थस्य प्रतिपत्तिः, केवलसे केन्द्रियाणामव्यक्तमेव, किंच-नाप्यनिर्वचनीयं तथारूपक्षयोपशमभावतो वाच्यवाचकभावपुरस्स रीकारेण शब्द संस्पृष्टार्थग्रहणमवसेयम्, अन्यथाऽऽहारादिसंज्ञाऽनुपपत्तेः, यदप्युच्यते यद्येवंलक्षणं श्रुतं तर्हि य एव श्रोत्रेन्द्रियलब्धिमान् भाषालब्धिमान् वा तस्यैव श्रुतमुपपद्यते न शेषस्यैकेन्द्रियस्येति, तदप्यसमीक्षितार्थाभिधानं, सम्यक् प्रवचनार्थापरिज्ञानात्, तथाहि-- बकुलादीनां स्पर्शनेन्द्रियातिरिक्तद्रव्येन्द्रियलब्धिविकत्वेऽपि तेषां किमपि सूक्ष्मं भावेन्द्रियपञ्चकविज्ञानमभ्युपगम्यते, 'पंचिंदिओऽवि बउलो' इत्यादिभाष्यकारवचनप्रामाण्यात्, तथा भाषा
१ इन्द्रियमननिमित्तं यद्विज्ञानं श्रुतानुसारेण निजकाथक्तिसमर्थ सद् भावभुतं मतिः शेषम् ॥१॥
For Park Lise Only
~292~
एकेन्द्रि
येsपिश्रुतं
१०
१२
wor