SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [२४] दीप अनुक्रम [९३] [भाग-३८] “नन्दी” - चूलिकासूत्र - १ (मूलं + वृत्ति:) मूलं [२४]/ गाथा ||६०...|| ..... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४ ] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः ॥१४०॥ श्रीमलय-गतयोरपि लक्षणभेदाद्भेदो, यथैकाकाशस्थ योर्धर्मास्तिकाया धर्मास्तिकाययोः तथाहि धर्माधर्मास्तिकाय परस्परं गिरीया | लोलीभावेनैकस्मिन्नाकाशदेशे व्यवस्थितौ तथापि यो गतिपरिणाम परिणत यो जब पुद्गल योर्गत्युपष्टम्भ हेतुर्जलमित्र मनन्दीवृत्तिः त्स्यस्य स खलु धर्मास्तिकायो यः पुनः स्थितिपरिणामपरिणतयोर्जीवपुद्गलयोरेव स्थित्युपष्टम्भहेतुः क्षितिरिव झपस्य स खलु अधर्मास्तिकाय इति लक्षणभेदाद्भेदो भवति, एवमाभिनिबोधिकश्रुतयोरपि लक्षणभेदाद्वेदो वेदितव्यः, लक्षणभेदमेव दर्शयति- 'अभिनिबुज्झई'त्यादि, अभिमुखं - योग्यदेशे व्यवस्थितं नियतमर्थमिन्द्रियमनोद्वारेण बुध्यतेपरिच्छिनत्ति आत्मा येन परिणामविशेषेण स परिणामविशेषो ज्ञानापरपर्याय आभिनियोधिकं, तथा शृणोति वा च्यवाचकभावपुरस्सरं श्रवणविषयेन शब्देन सह संस्पृष्टमर्थ परिच्छिनत्यात्मा येन परिणामविशेषेण स परिणामविशेषः श्रुतं । ननु यद्येवंलक्षणं श्रुतं तर्हि य एव श्रोत्रेन्द्रियलब्धिमान् भाषालब्धिमान् वा तस्यैव श्रुतमुपपद्यते न शेषस्यैकेन्द्रियस्य, तथाहि यः श्रोत्रेन्द्रियलब्धिमान् भवति स विवक्षितं शब्दं श्रुत्वा तेन शब्देन वाच्यमर्थं प्रतिपत्तुमीष्टे न शेषः, शेषस्य तथारूपशक्त्यभावात्, योऽपि च भावालच्धिमान् भवति सोऽपि द्वीन्द्रियादिः प्रायः खचेतसि किमपि विकल्प्य तदभिधानानुमानतः शब्दमुद्गिरति नान्यथा, ततस्तस्यापि श्रुतं सम्भाव्यते, यस्त्वे केन्द्रियः स न तावत् श्रोत्रेन्द्रियग्धिमान् नापि भाषालब्धिमान् ततः कथं तस्य श्रुतसम्भवः ?, अथ च प्रवचने तस्यापि श्रुतमुपवर्ण्यते, तत्कथं प्राक्तनं श्रुतलक्षणं समीचीनमिति ?, नैप दोषो, यत इह तावदेकेन्द्रियाणामाहारादिसंज्ञा विद्यते For Park Use Only ~ 291~ एकेन्द्रि येsपितं २० 1188011 २५
SR No.035038
Book TitleSavruttik Aagam Sootraani 1 Part 38 Nandisootra Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages528
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy