SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [२०] दीप अनुक्रम [८६] [भाग-३८] “नन्दी” - चूलिकासूत्र - १ (मूलं + वृत्ति:) मूलं [२०]/ गाथा || ५८...|| ..... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः मज्झे अट्ठ' इति, उत्कृष्टद्वारे येषा सम्यक्त्वपरिभ्रष्टानामनन्तः कालोऽगमत् तेषामष्टशतं संङ्ख्यात कालपतितानामसङ्ख्यातकालपतितानां च दशकं २, अप्रतिपतितसम्यक्त्वानां चतुष्टयं उक्तं च- "जेसिं अनंतकालो पडिवाओ तेर्सि होइ असयं । अप्पडिवडिए चउरो दसगं दसगं च सेसाणं ॥ १ ॥” अन्तरद्वारे एको वा सान्तरतः सिध्यति बहवो या, तत्र बहवो यावदष्टशतं । अनुसमयद्वारे प्रतिसमयमेको वा सिध्यति बहवो वा, तत्र बहूनां सिध्यतामियं प्ररूपणा एकादयो द्वात्रिंशत्पर्यन्ता निरन्तरमुत्कर्षतोऽष्टौ समयान् यावत् प्राप्यन्ते इयमत्र भावना - प्रथमसमये जघन्यत एको द्वौ वा उत्कर्षतो द्वात्रिंशत् सिध्यन्तः प्राप्यन्ते, द्वितीयसमये जघन्यत एको द्वौ वा उत्कर्षतो द्वात्रिंशद, एवं तृतीयसमयेऽपि, एवं चतुर्थसमयेऽपि, एवं यावदष्टमेऽपि समये जघन्यत एको द्वौ वा उत्कर्षतो द्वात्रिंशततः परमवश्यमन्तरं । तथा त्रयस्त्रिंशदादयोऽष्टचत्वारिंशत्पर्यन्ता निरन्तरं सिध्यन्तः, सप्त समयान् यावत्प्राप्यन्ते, भावना प्राग्वत्, परतो नियमादन्तरं, तथा एकोनपञ्चाशदादयः पष्टिपर्यन्ता निरन्तरं सिध्यन्तः उत्कर्षतः पटू समयान् यावदवाप्यन्ते, परतोऽवश्यमन्तरं, तथा एकषष्ट्यादयो द्विसप्ततिपर्यन्ता निरन्तरमुत्कर्षतः सिध्यन्तः उत्कर्षतः पञ्च समयान् यावत्प्राप्यन्ते, ततः परमन्तरं, तथा त्रिसप्तत्यादयश्चतुरशीतिपर्यन्ता निरन्तरं सिध्यन्तः उत्कर्षतश्चतुरस्समयान् यावत्प्राप्यन्ते, तत ऊर्द्धमन्तरं, तथा पञ्चाशीत्यादयः पण्णयतिपर्यन्ता निरन्तरं सिध्यन्तः उत्क १ येषामनन्तः कालः प्रतिपाते तेषां भवत्यष्टतम् । अप्रतिपतिदे चत्वारो दशकं दशकं च शेषाणाम् ॥ १ ॥ For Penal Use On ~ 250 ~ अनन्तर सिद्ध केवलज्ञानम् १० १२ rary or
SR No.035038
Book TitleSavruttik Aagam Sootraani 1 Part 38 Nandisootra Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages528
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy